SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ गाथा-५-७ ५-प्रत्याख्यानविधि-पञ्चाशकम् भावः सत्ताऽनुबन्धभावः, तत्र च - अटी.] विधिसमायुक्तमिति सम्बन्धः // 4 // एनामेव लेशतो व्याचष्टे - गिण्हति सयंगहीयं, काले विणएण सम्ममुवउत्तो / अणुभासंतो पइवत्थु, जाणगो जाणगसगासे // 199 // 5/5 गृह्णाति प्रत्याख्यानं स्वयंगृहीतम्, गृह एव शरीरस्थिति-चैत्यवन्दनानन्तरं गृहीतम् / काले प्रत्याख्यानविषये भाविनि नातीते वर्तमाने वा अनागतं प्रत्याख्यामीति भाविकालविषयत्वे प्रतिपादनात् / अतीतवर्तमानयोश्च निन्दासंवरणविषयत्वात्, विनयेन वन्दनादिना / सम्यग्देशकालापेक्षयौचित्यमाश्रित्य न तु यथाकथञ्चित् स्वाध्याय-ध्यान-विघ्नकरणेन, उपयुक्तो नान्यत्रगतचित्तोऽनुपयुक्तस्य सर्वानुष्ठानेष्वेव द्रव्यत्वप्रतिपादनात् / अनुभाषमाणो ज्ञातसाधुवत् प्रत्युच्चारयन्नविनष्टं प्रत्याख्यानसूत्रम् / प्रतिवस्तु वस्तु वस्तु प्रति यद् यत्प्रत्याख्येयमित्यर्थः / ज्ञाप[य]को ज्ञः स्वयंवेदिता प्रत्याख्यानसूत्रार्थस्य, ज्ञाप[य]कसकाशे ज्ञसमीपे ज्ञस्य साधोः समीप इति यावत् // 5 // एत्थं पुण चउभंगो, विण्णेओ जाणगेयरगओ उ। सुद्धासुद्धा पढमंतिमा उ सेसेसु उ विभासा // 200 // 5/6 अत्र पुनः प्रत्याख्यानप्रस्तावे, चतूरूपश्चासौ भङ्गश्च प्रकारश्च चतुर्भङ्गः, प्रत्याख्याने चत्वारो भङ्गा, जातावेकवचनम्। विज्ञेयो ज्ञातव्यो ज्ञाप[य]केतरगतस्तु कुशलाऽकुशलबुद्धिपुरुषगतः। शुद्धाशुद्धौ प्रथमान्त्यौ भङ्गौ, प्रथमः शुद्धोऽन्त्यस्त्वशुद्धः / साकल्य-वैकल्याभ्यां प्रत्येकमवसेयौ। शेषयोस्तु द्वितीय-तृतीययोः विभाषा व्याख्या विकल्पो वा शुद्धाशुद्धत्वे // 6 // बितिए जाणावेउं, ओहेण तइए जिट्ठगादिम्मि / कारणओ उ न दोसो, इहरा होइ त्ति गहणविही // 201 // 5/7 द्वितीये [भङ्गे] ज्ञस्य ज्ञसमीपरूप-ग्रहणरूपे ज्ञापयित्वा तमज्ञं ओघेन सामान्येन, ओघेनाप्यज्ञाने विरतेरभावान्निविषयत्वेन यत्र ज्ञानं तद्विषयैव विरतिरिष्यते / ज्ञानविषयस्य विरतेरप्यविषयत्वात्, न ह्यज्ञाते कथञ्चिदपि विरति म स्वल्पेऽपि तु ज्ञाने तद्विषया विरतिर्भवत्येव / ज्ञात्वाऽभ्युपेत्यकरणं विरतिरितिवचनात् / तृतीये भङ्गे ज्ञस्याज्ञसमीपग्रहणरूपे, ज्येष्ठकादौ ज्येष्ठार्यादौ, आदिशब्दात्तथाविधमहातपस्वि-रत्नाधिकवृद्धपरिग्रहः / कारणतस्तु कारणादेव न दोषः शास्त्रबाधालक्षणः, इतरथा भवतीति भवत्येव दोषः / ग्रहणविधिरयं प्रत्याख्याने वर्तते // 7 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy