________________ // पञ्चमं प्रत्याख्यानविधि-पञ्चाशकम् // जिनगुरुपूजानन्तरं क्रमप्राप्तं प्रत्याख्यानविधिमाह नमिऊण वद्धमाणं, समासओ सुत्तजुत्तिओ वोच्छं। पच्चक्खाणस्स विहि, मंदमतिविबोहणट्ठाए // 195 // 5/1 नत्वा वर्धमानं प्रकृष्टपुण्योदयप्रवर्धमानत्वाद्वर्धमानस्वामिनम्, समासतः सक्षेपेण सूत्रयुक्तितः सूत्रनीत्या वक्ष्येऽभिधास्ये प्रत्याख्यानस्य विधि विधानं मन्दमतिविबोधनार्थम् // 1 // जडबुद्धिविबोधनार्थं प्रत्याख्यानं किमुच्यत इत्याह - पच्चक्खाणं नियमो, चरित्तधम्मो य होंति एगट्ठा / मूलुत्तरगुणविसयं, चित्तमिणं वणियं समए // 196 // 5/2 प्रत्याख्यानं नियमश्चरित्रधर्मश्च भवन्त्येकाथिकानि निवृत्त्यभिधायित्वात् / मूलोत्तरगणविषयं मूलगुणाः पञ्चमहाव्रतानि यतीनाम्, श्रावकाणामणुव्रतानि, उत्तरगुणाः पिण्डविशुद्ध्यादयोर्दिग्व्रतानि च तद्गोचरं चित्रमिदं प्रत्याख्यानं वर्णितं समये सिद्धान्ते // 2 // इह पुण अद्धारूवं, नवकारादि पतिदिणुवओगि त्ति / आहारगोयरं जइगिहीण भणिमो इमं चेव // 197 // 5/3 इह पुनरद्धारूपमद्धाप्रत्याख्यानस्वरूपं प्रतिनियतकालत्वेन, नमस्कारादि नमस्कारसहितादि प्रतिदिनोपयोगीति प्रतिदिवसोपयोगीति कृत्वा, आहारगोचरमाहारविषयम् / यतिगृहिणां साधुगृहस्थानां भणामः प्रतिपादयामः / इदं चैव प्रत्याख्यानमेव प्रस्तुतत्वात् / / 3 / / प्रत्याख्यानगतानां द्वारगाथामाह - गहणे आगारेसुं, सामइए चेव विहिसमाउत्तं / भेए भोगे सयपालणाए अणुबंध भावे य // 198 // 5/4 [दारगाहा ] ग्रहणे वक्ष्यमाणे, आकारेषु वक्ष्यमाणेष्वेव, सामायिके चैव कार्ये, विधिसमायुक्तं विधिसमन्वितम् / भेदे द्विविधादिगते भोगे प्रत्याख्यानोत्तरकालभाविनि स्वयंपालनायां स्वयमासेवने / अनुबन्धे भोगोत्तरकालभाविनि स्वाध्यायकरणादौ भावे च विशुद्धरूपे [अनुबन्धस्य