SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 59 गाथा-४९-५० ४-पूजाविधि-पञ्चाशकम् उत्तमगुणबहुमान उत्तमेषु गुणेषु केवलज्ञान-दर्शन-यथाख्यातचारित्रादिषु बहुमानः प्रीतिविशेषः। पदमुत्तमसत्त्वमध्यकारे देवेन्द्र-नरेन्द्र-विद्याधर-पार्थिवादिमध्यस्थ इत्यर्थः / उत्तमधर्मप्रसिद्धिः स्वर्गापवर्गनिर्वर्तनक्षमधर्मप्रसिद्धिः क्षान्त्याद्याशयविशेषरूपदशविधधर्मप्रसिद्धिर्वा पूजया जिनवरेन्द्राणां भवति // 48 // इहैव निदर्शनमाह - सुव्वइ दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहिं / पूयापणिहाणेणं, उववन्ना तियसलोगम्मि // 193 // 4/49 श्रूयते दुर्गतनारी दरिद्रस्त्री तथाविधसुरभिगन्धिपुष्पाद्यभावेन निविभवा जगद्गुरो-र्भगवतः सिन्दुवारकुसुमैर्नदीतीरासन्नसम्भवैः पूजाप्रणिधानेन पूजागताध्यवसायेन कथञ्चिदायुःक्षयादन्यद्वेलायां उपपन्ना त्रिदशलोके देवलोके / सा हि दुर्गतस्त्री समस्तसुरासुर-पार्थिवकृतपूजं भगवन्तं समवसृतं दृष्ट्वा भक्तिभरनिर्भरमानसा स्वकृतापराधमनुचिन्तयन्ती नूनं मयाऽन्यजन्मन्यपि महात्मनां केषाञ्चित् पूजा न कृतेति तत्फलमिदं दौर्गत्यम्, अतोऽधुना भगवत्पूजासम्पादनेन तदपनयामीत्यध्यवसायवती यथाप्रत्यासन्नलब्धसिन्दुवारकुसुमानि] तत्परिपूर्णाञ्जलिः प्रमोदातिशयात् समवसरणं प्रति प्रस्थिता / तस्याश्च तस्यां वेलायां शुभप्रणिधानविशेषाद् देवेष्वायुर्बन्धो बभूव / तदनन्तरं प्रवर्धमानशुभपरिणामा तथा विरचितप्रशस्तकुसुमाञ्जलिरेव भगवन्तं भावतः पूजयित्वा द्रव्यतस्तामसम्पाद्यैवायुःक्षयाद्देवलोके समजनिष्टः / तदेवं भावतः पूजायाः फलं श्रूयते / तस्मात्कर्तव्येयमिति // 49 // सम्मं नाऊण इमं, सुयाणुसारेण धीरपुरिसेहिं / एवं चिय कायव्वं, अविरहियं सिद्धिकामेहिं // 194 // 4/50 सम्यग्ज्ञात्वेदं पूजाविधानं श्रुतानुसारेणागमनीत्या धीरपुरुषैविद्वत्पुरुषैः एवमेव कर्तव्यम्, यथागममेवेत्यर्थः / अविरहितं निरन्तरं सिद्धिकामैः मोक्षाभिलाषिभिरिति // 50 // // पूजाविधि पञ्चाशकं चतुर्थं समाप्तम् //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy