SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ गाथा-१७-१९ ५-प्रत्याख्यानविधि-पञ्चाशकम एवं परेणोक्ते सत्याह - समभावे च्चिय तं जं, जायइ सव्वत्थ आवकहियं च / ता तत्थ न आगारा, पण्णत्ता किमिह तुच्छं ति // 211 // 5/17 समभाव एव रागद्वेषविकलाध्यवसाय एव सामान्येन तत् सर्वविरतिसामायिकम् / यद् यस्माज्जायते सम्भवति सर्वत्र वस्तुनि जायते चेतनाचेतनस्वभावे यावत्कथितं च यावज्जीवं च, ततस्तत्र सामायिके नाऽऽकाराः प्रज्ञप्ताः / किमिह तुच्छमिति न किञ्चिदत्रासारम् / / 17 / / तं खलु निरभिस्संगं, समयाए सव्वभावविसयं तु / कालावहिम्मि वि परं, भंगभया नावहित्तेण // 212 // 5/18 तत् खलु सामायिकं निरभिष्वङ्गं निराशंसमेव, समतया मध्यस्थतया सर्वभावविषयं तु सर्वपदार्थविषयमेव / ननु यदि सर्वद्रव्य-क्षेत्र-काल-भावविषयं तदिष्यते, तत्कथं यावज्जीवमित्युक्तमिति पराभिप्रायमुररीकृत्य वक्ति-कालावधावपि यावज्जीवलक्षणे, परं [जीवनात् परतः - अटी.] केवलं भङ्गभयान्नावधित्वेन / इदमत्र तात्पर्यं-यावज्जीवमिति न जीवितावधिपरिच्छेदेन, परतोऽनिष्टतया सर्वसावद्ययोगविरतेरेवमभिधानम् / परतः किलाहं सर्वमासेविष्ये भोगादि, जीवितावधिकालमात्रमेव मम सावद्ययोगनिवृत्ति वमर्थं यावज्जीववचनम्, किन्तु जीवितावधेः परतो मम सामायिकस्य भङ्गो मा भूदित्यवधिः क्रियते / यतो देवादिषु गतस्य न विरतिसम्भवो नाप्यात्मनो वशित्वम् / यदैव च वशित्वं तदैव तत्सामायिकं कर्तुं युक्तं प्रतिज्ञया। न हि सन्देहविषये विदुषां[षा] प्रतिज्ञा कर्तुं युक्ता / यावज्जीवितं तु प्रतिज्ञाकरणे स्वतन्त्रत्वान्न दोषः, तस्य ह्येवंविधोऽध्यवसायोऽस्ति यावतायुर्मया पालनीयमिदमिति, कर्मपारतन्त्र्यात् तदन्यथा भावेऽपि न तस्य कश्चिद्दोषः / स हि यदा यदा सामायिकपरिणामं प्रतिपद्यते तदा तदा तदध्यवसाय एव भवति, न विपरीताध्यवसायः / एवं मोक्ष-ग्रहणयोः सतोरपि न यावज्जीवप्रतिज्ञाक्षतिः / कर्मपारतन्त्र्यविकलस्तु यथोत्क्षिप्तभरनिर्वाहत्वेन सर्वदा तत्प्रतिज्ञ एव भवति, न मोक्ष-ग्रहणवान् / तेन भङ्गभयादेवमभिधत्ते, न पुनरवधित्वेन तदध्यवसायस्य परतोऽपि भावतः संकल्प्याह तदत्यन्तवल्लभत्वात् / तस्य केवलं कर्मपराव्यत्ययतः सुष्ठूच्यते / सर्वभावविषयमेतत् // 18 // सामायिकनिरभिष्वङ्गता प्रतिपादनार्थमेवेदमाह - मरणजयज्झवसियसुहडभावतुल्लमिह हीणणाएण।। अववायाण न विसओ, भावेयव्वं पयत्तेणं // 213 // 5/19 मरणजयाध्यवसितसुभटभावतुल्यं 'मर्तव्यं वा मया जयश्रीर्वा प्राप्तव्या' एवं व्यवसाय
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy