________________ ५-प्रत्याख्यानविधि-पञ्चाशकम् गाथा-२०-२१ स्थितशूरपुरुषसङ्कल्पकल्पम् / इह प्रक्रमे / हीनज्ञातेन हीनोदाहरणेन / क्रोधादिकषायकलुषितचेता विषयोपभोगार्थी, परजिघांसाप्रवृत्तः, परोपकारानपेक्षः, विनयादिविकलश्च शरीरनिरपेक्षतामात्रेण पराक्रमते / भावसामायिकवांस्तु तद्गुणविपरीतविशेषयुक्तो महाकल्याणाशयो विधेयानुष्ठानविषये सदाप्रमत्ततया रात्रिंदिवं तदेवाध्यवसायित्वेन महापुरुषाचरितमार्गसेवनपरः सदैवोत्तमपदाभिलाषी सांसारिकसुखनिरपेक्षः पराक्रमते, तेनोत्तमपुरुषव्यापारापेक्षया हीनज्ञातमेतत् / तेन हीनज्ञातेनेत्युच्यते, न पुनः परमार्थतस्तत्तुल्यमुत्तमत्वादस्य भावसामायिकस्य / अपवादानां न विषयः शास्त्रोक्तसामायिकमुत्सर्गापवादगर्भत्वादस्य, तयोश्च शास्त्रेणैव विहितत्वात्, तदनपेक्षस्य सर्वदैवासम्भवात् / न हि शास्त्रोक्तप्रकारमन्तरेण कदाचिदेतत् सामायिकं सम्भवति / तस्मात्तदुत्तीर्णरूपाणामन्येषामपवादानामविषयो / भावयितव्यम् प्रयत्नेन भावनीयमादरेण शास्त्रोक्तास्तु विशेषा नैव निराक्रियन्ते, तदविनाभावित्वात्तस्येति सूक्ष्मधियाऽऽलोचनीयम् // 19 // एत्तो च्चिय पडिसेहो, दढं अजोग्गाण वण्णिओ समए / एयस्स पाइणो वि हु, बीयं ति विही य अइसइणा // 214 // 5/20 अत एव निरभिष्वङ्गपरिणामरूपत्वादेव सामायिकस्य प्रतिषेधो निषेधो दृढम् अत्यर्थम् अयोग्यानां जीवानां संसाराविरक्तानां, वर्णितः प्रतिपादितः समये सिद्धान्ते / ननु यदि यावज्जीवसामायिकप्रतिपालनविकलानां सामायिकं न दीयत एवायोग्यत्वात् कथमाभीरजीवस्य सामायिकविधिः स्तयत इत्याह-एतस्य सामायिकस्य घातिनो(पातिनो)ऽप्यवश्यप्रतिपातिनोऽपि। हुर्वाक्यालङ्कारे / बीजमिति कृत्वा विधिश्चातिशयिना कृतः / इदमुक्तं भवति / योऽतिशयिना सर्वज्ञेन भगवता महावीरस्वामिनाभीरजीवस्य नियमप्रतिपातिनोऽपि सामायिकस्य विधिरूपदर्शितः / स पूर्वजन्मन्यव्यक्तसामायिकस्पर्शनद्वारेण तथाविधद्वेषविनिवृत्त्या कालान्तरे भवान्तरमाश्रित्य बीजमवन्ध्यकारणं व्यक्तं भावसामायिकस्य भविष्यतीति निश्चित्य विहितः तेनातिशयिना / तथाविध उपदिश्यमानो न दोषाय / अनतिशयिना तु सर्वेणैव योग्याश्रयणं विधेयम् / न यस्मै कस्मैचित् सामायिकं देयम्, उत्तमपुरुषयोग्यत्वादस्य // 20 // (1. योग्यं लक्षीकृत्येत्यर्थः / ) तस्स उ पवेसनिग्गमवारणजोगेसु जह उ अववाया / मूलाबाहाएँ तहा, नवकाराइम्मि आगारा // 215 // 5/21 तस्य तु सामायिकस्य, प्रवेशः आलये निर्गमः तत एव, 'परस्परपरिहारस्थितिरूपावेतो, यदा प्रवेशः, तदा न निर्गमो, यदा निर्गमः तदा न प्रवेश, एकस्यैव सामायिकवतः / वारणं प्रतिषेधो निवृत्तिः, योजनं तु योगः व्यापारप्रवृतिः, एतावपि वारण-योगौ तथैव निवृत्तिप्रवृत्त्यात्मकत्वादनयोस्तदेतेषु प्रवेश-निर्गमवारण-योगेषु वर्त्तमानस्य यथा तु अपवादा यथैते