________________ गाथा-२२-२३ ५-प्रत्याख्यानविधि-पञ्चाशकम् 67 विशेषा मूलाबाधया भावसामायिकाबाधया मध्यस्थस्य सदौदासीन्ये वर्तन्ते, नैकत्रैकदाप्रवृत्तस्य तत्र रागो चान्यतो निवृत्तस्य तत्र द्वेषः, सममेव परस्परविरुद्धयोः निष्पादयितुमशक्यत्वान्न सामायिकबाधा / तथा नमस्कारादौ आकाराः क्रियमाणा न सर्वविरतिसामायिकं बाधन्ते / नमस्कारसहितादेरप्रमादवृद्धिजनकत्वेनेष्टत्वात् // 21 // (1. परस्परपरिहारस्थितिरूपौ एतौ / ) ___ ननु च तस्य तेष्वाकारेषु वर्तमानस्याऽन्यथापरिणामो भविष्यति ततश्च सामायिकबाधैवेत्याशङ्क्याह - न य तस्स तेसु वि तहा, निरभिस्संगो उ होइ परिणामो / पडियारलिंगसिद्धो, उ नियमओ अन्नहारूवो // 216 // 5/22 न च तस्य साधोः तेष्वप्याकारेषु तथा अनुभवसिद्धरूपेण निरभिष्वङ्गस्तु निरभिष्वङ्ग एव सन् स्वयमन्यथारूपो भवति परिणामः, किन्तु तथारूप एव प्रतीकारलिङ्गसिद्धस्तु नियमतोऽन्यथारूपः। यदि पुनरन्यथारूपः कथञ्चिद् भवेत् ततोऽसौ प्रतीकारं प्रायश्चित्तग्रहणरूपं विधत्ते / तेन लिङ्गेन सिद्धे निरभिष्वङ्ग एव परिणामः / इदमत्र तात्पर्यम् / सर्वेष्वेव विशेषेष्वाहारसेवना-ऽनासेवनरूपेषु वर्तमानस्य सामायिकवतस्तद्रूप एव परिणामो नान्यथात्वं भजते / यदि पुनरन्यथात्वभावःकथञ्चित् स्यात्ततोऽसौ परिणामस्य स्वसंवेदनसिद्धत्वादन्यथात्वं पश्यंस्तद्विशुद्धये प्रतीकारपरो भवेत् / 'प्रतीकाराकरणात् तु निरभिष्वङ्गपरिणामावस्थित एवेति विज्ञायते // 22 // (1. प्रतीकाराकरणात् - प्रत्यवायाभावे-दोषविशेषासेवने सति / ) ननु चैवमाहारप्रत्याख्याने विशेषकरणेन प्रवर्तमानस्यौत्सर्गिकं समभावरूपं कथं न व्याहन्यत इत्याह न य पढमभाववाघाय मो उ एवं पि अवि य तस्सिद्धी / एवं चिय होइ दढं, इहरा वामोहपायं तु // 217 // 5/23 न च प्रथमभावस्य सामायिकगतसमभावलक्षणस्य व्याघातो विघातो, मो इति निपातः, तुशब्दोऽवधारणे / नैव च प्रथमभावस्याघात, एवमप्याहारविषयप्रत्याख्यानाऽऽकाराऽकरणेवौत्सर्गिकस्य बाधा काचिदपि, यतः प्रवर्तते / अपि च तत्सिद्धिः समभावसिद्धिः, एवमेवाहारविषयप्रत्याख्यानकरणेन भवति / दृढमत्यर्थम्, इतरथाऽप्रमादवृद्धिजनकाहारप्रत्याख्यानाऽनासेवनेन / व्यामोहप्रायं तु विमूढताप्रायमेव सामायिकं भवेत् / तस्मात् स्थितमेतत्, सामायिके सत्यपि गुणकरमेतदाहारप्रत्याख्यानमिति / / 23 / / ननु च यदि यावज्जीवप्रतिज्ञया सामायिकं भवति, न पुनरित्वरकालम्, साधूनां तत्कथं समभावमोक्ष-ग्रहणनिरूपणायाम्(समभावस्य मोक्ष-ग्रहणयोरन्तराले काले अन्तर्मुहूर्तमपि