SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 68 ५-प्रत्याख्यानविधि-पञ्चाशकम गाथा-२४-२६ निरूपणायां)अपूर्वलाभे च क्वचिज्जघन्यतोऽन्तर्मुहूर्तमपि सामायिकपरिणाम इष्टः / स च यदा भवतीदृश एव शास्त्रोक्तो भवत्यनीदृशो वेत्याशङ्क्याह - उभयाभावे वि कुतो वि अग्गओ हंदि एरिसो चेव / तक्काले तब्भावो, चित्तखओवसमओ णेओ // 218 // 5/24 उभयाभावेऽपि प्रतिपातमाश्रित्य भावक्रिययोरभावेऽपि, कुतोऽप्यनेकप्रकाराद्धेतोरग्रतः पुरस्तात् क्रियापरिणामप्रतिपातकारणानि ह्यनेकानि सम्भवन्तीति कुतोऽपि ग्रहणम् / हन्त इत्यामन्त्रणे। ईदृश एव शास्त्रोक्त एव न तद्विपरीतस्वरूपः / तत्काले विवक्षितान्तर्मुहूर्ते तद्भावः प्रकृतसामायिकाध्यवसायः समभावरूपः, चित्रक्षयोपशमतो ज्ञेयः चित्रस्वभावक्षयोपशमात् तत्कालमात्रावस्थायी तादृश एव बोद्धव्यः / एवं यत् केचिद् मन्यन्ते यावज्जीवसमभावप्रतिपालनाभावादन्यादृश एव जघन्यकालभावी सामायिकपरिणाम इति तन्निरस्तं भवति / चित्रक्षयोपशमिकात् तात्त्विकस्यापि सामायिकपरिणामस्य स्वल्पकालावस्थायिनः सम्भवात् शास्त्रोक्तत्वेन प्रतिनियतकालावस्थायिनोऽपि निषेधमशक्यत्वात् अन्यथा शास्त्रप्रामाण्यभावप्रसङ्गात्, तस्य च धर्माधर्मव्यवस्थामङ्गीकृतत्वात् / यत उक्तम् - धर्माधर्मव्यवस्थायाः शास्त्रमेव नियामकम् / तदुक्ताऽऽसेवनाद्धर्मस्त्वधर्मस्तद्विपर्ययात् [ ] // 24 // 'भेदे विधिसमायुक्तम्' इत्युक्तम्, [5/4 गाथायाम्] तद्विवृण्वन्नाह - आहारजाइओ एस एत्थ एक्को वि होति चउभेओ / असणाइजाइभेया, नाणाइपसिद्धिओ णेओ // 219 // 5/25 आहारजातित आहारजातिमाश्रित्य, एष आहारः अत्र प्रस्तावे / एकोऽपि सन् तत्सामान्याङ्गीकरणेन भवति चतुर्भेदः चतुर्विकल्पः अशनादिजातिभेदात् अशन-पानखाद्याऽऽस्वाद्यजातिविशेषात् / ज्ञानादिप्रसिद्धितो ज्ञान-श्रद्धाना-ऽऽचरणप्रसिद्धः ज्ञेयो ज्ञातव्योऽन्यथाविविक्तरूपज्ञान-श्रद्धानाधभावात् / / 25 / / एतदेवाह - नाणं सद्दहणं गहण पालणा विरतिवुड्ढि चेवं ति / होइ इहरा उ मोहा विवज्जओ भणियभावाणं // 220 // 5/26 ज्ञानमवबोधरूपम्, श्रद्धानं रूचिरूपम्, ग्रहणं शास्त्रीयनियमस्य, पालना गृहीतनियमस्यैव, विरतिवृद्धि विरतिपरिणामाभिवृद्धिरेवमित्याहारभेदावस्थापने। भवतीति सर्वेषु पदेष्वभिसम्बध्यते।
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy