SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ गाथा-३५-३८ _ ४-पूजाविधि-पञ्चाशकम् ____55 उचियं च इमं णेयं, तस्साभावम्मि तप्फलस्सऽण्णे / अपमत्तसंजयाणं, आराऽणभिसंगओ न परे // 179 // 4/35 उचितं च योग्यं चेदं प्रणिधानं ज्ञेयम् / तस्य प्रार्थनीयार्थस्याभावे तत्फलस्य प्रणिधानविषयीकृतार्थजन्यकार्यस्याविद्यमानत्वेऽन्ये प्रणिधानमिच्छन्ति / यद्यपि सोऽर्थः सामान्येनास्ति तथापि तत्फलसंसिद्धये स एव प्रार्थ्यते। कथं तु नाम विशिष्टतमः स्यात्तस्यानेकभेदत्वाद्? अप्रमत्तसंयतेभ्य आरादर्वाग्भाग इत्यर्थः। प्रमत्तसंयतान्तमित्युक्तं भवति / अनभिष्वङ्गाद्धेतोर्न परस्मिन् प्रमत्तसंयतादप्रमत्तसंयते तस्य ह्यप्रमत्तत्वादेव न किञ्चित्प्रणिधानेन साध्यमस्ति प्रार्थनातीतत्वाद्विहितसेवनपरत्वात्कुशलपरिणामत्वाच्चेति // 35 // 'न निदानं प्रणिधानम्' इति [4-30 गाथायाम्] यदुक्तं तस्येव भावार्थगर्भनिगमनद्वारेणाहमोक्खंगपत्थणा इय, न नियाणं तदुचियस्स विण्णेयं / सुत्ताणुमइत्तो जह, बोहीए पत्थणा माणं // 180 // 4/36 मोक्षाङ्गप्रार्थना मुक्तिहेतुसम्यग्ज्ञान-परोपकारादिप्रार्थना इत्युक्तनीत्या न निदानम् तदुचित[स्य] प्रणिधानोचितस्य विज्ञेयम्, सूत्रानुमतेः सकाशात् सूत्राभिप्रेतत्वात् वा तद्विधप्रार्थनाया यथा बोधेः प्रार्थना मानं प्रमाणमत्र यदि प्रार्थना सर्वापि निदानमभविष्यत्, ततो बोधिप्रार्थनां सूत्रे नाकरिष्यत् कृता च तस्मात् सैव प्रमाणम् // 36 / / ___ ननु च यदि शुभभावप्रार्थनानिदानं न भवति, ततो दशाश्रुतस्कन्धे तीर्थकरविषयनिदानप्रतिषेधो युक्त इत्याशङ्क्याह - एवं च दसादीसुं, तित्थयरम्मि वि नियाणपडिसेहो / जुत्तो भवपडिबद्धं, साभिस्संगं तयं जेण // 181 // 4/37 एवंच रागद्वेषमोहगर्भस्य रूप-रस-गन्ध-स्पर्श-शब्दसांसारिकपदार्थविषयस्य क्लिष्ट परिणामस्य निदानत्वे, दशादिषु ग्रन्थेषु तीर्थकरेऽपि तीर्थकरत्वविषयेऽप्यहमस्माद्धर्मात्तीर्थकरः स्यामिति निदानप्रतिषेधः, एवंरूपनिदाननिषेधो य उक्त:, स युक्तो वर्तते / भवप्रतिबद्धं संसारप्रतिबद्धं सांसारिकरूपसौभाग्यादिभावविषयम्। साभिष्वङ्गं सरागं तत्तीर्थकरनिदानं येन। अयमत्र भावार्थोयदेव सांसारिकभावविषयं तीर्थकरत्वनिदानं तदेव तत्र निषिध्यते, न त्वन्यत् // 37 // अत एवाह - जं पुण निरभिस्संगं, धम्मा एसो अणेगसत्तहिओ / निरुवमसुहसंजणओ, अपुव्वचिंतामणीकप्पो // 182 // 4/38
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy