SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 56 ४-पूजाविधि-पञ्चाशकम् गाथा-३९-४१ ता एयाणुट्ठाणं, हियमणुवहयं पहाणभावस्स / तम्मि पवित्तिसरूवं, अत्थापत्तीऍ तमदुटुं // 183 // 4/39 जुग्गं / यत्पुनर्निरभिष्वङ्गं तीर्थकरत्वप्रार्थनारूपं सांसारिकभावातीतं परोपकारादिफलम्, तददुष्टमिति सम्बन्धः / कीदृशं निरभिष्वङ्गमध्यमवसायरूपं? धर्मादर्हद्वात्सल्याद्युपात्तानुत्तरपुण्यस्कन्धरूपतीर्थकरनामकर्मफलविपाकाद् ज्ञानयोगप्रकर्षप्रतिपत्तिरूपाद्वा, एष भगवान् धर्माय एष इति वा धर्ममादिशतीति धर्मादेशो वा / अनेकसत्त्वहितोऽनेकभव्यसत्त्वहितनिरतो निरूपमसुखसञ्जनको मोक्षसुखहेतुस्तद्योगानाम्, अपूर्वचिन्तामणिकल्पश्चिन्तातिक्रान्तसुखविधायित्वेन // 38 // ___ तत्तस्मादेतदनुष्ठानं तीर्थकरानुष्ठानं तीर्थप्रवर्तनादि, हितं पथ्यमनुकूलम् / अनुपहतमप्रतिस्खलितसामर्थ्यम् / प्रधानभावस्य प्रधानत्वस्य / तस्मिन् परोपकारैकनिष्ठे भगवति प्रवृत्तिस्वरूपं परोपकार-प्रवृत्त्याकारम् अर्थापत्त्या न्यायतन्त्रयुक्तिगर्भयाऽन्यथानुपपत्त्या तददुष्टं न तस्य तीर्थकरप्रार्थनारूपस्य दोषोऽस्तीति यावत् / निदानप्रतिषेधस्तु साभिष्वङ्गचित्तविषयः, तस्यैव संसारानुबन्धित्वेन दुष्टत्वात्, तेन च कदाचित्तीर्थकरत्वाप्राप्तेः, निरभिष्वङ्गचित्तावर्जनीयं हि सर्वदा तत् / नहि निदानात्कश्चित्तीर्थकरो भवति महाकल्याणाश्रयस्यैव तीर्थकरनामकर्मत्वात् // 39 / एवं द्वाभ्यां गाथाभ्यां व्याख्यायोपसंहरति - कयमेत्थ पसंगेण, पूया एवं जिणाण कायव्वा / लभ्रूण माणुसत्तं, परिसुद्धा सुत्तनीईए // 184 // 4/40 कृतमत्र प्रसङ्गेनालं विस्तरेण पूजैवं जिनानां कर्त्तव्या। लब्ध्वा मानुषत्वं महारत्नकल्पम्। परिशुद्धा पूजा सूत्रनीत्यागमन्यायेन // 40 // सलिल-वनस्पत्याद्यारम्भमाशङ्कमान एवाह - पूयाए कायवहो, पडिकुट्ठो सो य णेव पुज्जाणं / उवगारिणि त्ति तो सा, परिसुद्धा कह णु होइ त्ति // 185 // 4/41 पूजायां पूजाया वा कायवधो जीवनिकायहिंसा प्रतिक्रुष्टः प्रतिषिद्धः / स च कायवधो न च (नैव) पूज्यानां जिनानाम् उपकारिणीत्युपकारफलवती तथाविधसाधोरिवारोग्यक्रिया / ततः सा पूजा परिशुद्धा निर्दोषा कथं नु भवतीति नैव कथञ्चिद्भवतीति प्रश्नयितुरभिप्रायः // 41 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy