________________ 54 ४-पूजाविधि-पञ्चाशकम् गाथा-३२-३५ तत्प्रणिधानं कथं कर्तव्यमित्याह - तं पुण संविग्गेणं, उवओगजुएण तिव्वसद्धाए / सिरणमियकरयलंजलि, इय कायव्वं पयत्तेणं // 176 // 4/32 तत् पुनःसंविग्नेन संसारभीरूणा मोक्षाभिलाषिणा वा। उपयोगयुतेनोपयुक्तेन दत्तावधानेन तीव्रश्रद्धया तीव्रप्रणिधानविषयाभिलाषेणोत्कृष्टधर्मश्रद्धया वा, शिरोनमितकरतलाञ्जलि मस्तकन्यस्तपाणितलाञ्जलिर्यथा भवति क्रियाविशेषणमेतत् / इति वक्ष्यमाणाक्षरोच्चारणन्यायेन कर्तव्यं प्रयत्नेन सर्वादरेण // 32 // जय वीयराय ! जगगुरु, होउ ममं तुह पभावओ भयवं / भवनिव्वेओ मग्गाणुसारिया इट्ठफलसिद्धी // 177 // 4/33 लोगविरुद्धच्चाओ, गुरुजणपूया परत्थकरणं च / सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा // 178 // 4/34 जुग्गं / जय, मङ्गलवचनमेतत् / सकलक्षुद्रोपद्रवपरिहारेण वीतरागवद्विगतरागद्वेषमोह जगद्गुरो जगज्ज्ञेयं चराचरं तस्य यथावस्थितस्वरूपसंसेवनाद् गुरुः / जगन्ति जङ्गमानि तेषां 'मानवीयत्वात् गुणाधिकत्वाद् वा गुरुः भवतु मम त्वत्प्रभावतो भगवंस्त्वत्सामर्थ्येन भवनिर्वेदः संसारनिर्वेदो मार्गानुसारिता मोक्षमार्गानुसारिता इष्टफलसिद्धिरविरोधफलनिष्पत्तिरैहलौकिकी ययोपगृहीतस्य चित्तस्वास्थ्यं भवति / ततश्च धर्मे प्रवृत्तिरन्यथा चित्तविघातान्नादिकर्मिकस्य निराकुलाशा तथाविधसत्त्वाभावेन तेनासाविष्टफलसिद्धि प्रार्थयते परानुपरोधेन // 33 / / (1. मानवीयत्वात् - यद्यपि अत्र मनुष्यत्वेन सर्वेषामपि मनुष्याणां (अविरतिधराणामपि) ग्रहणं सम्भवति, तथापि पूर्वोक्तगाथोपदर्शितरीत्या "धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः।" इत्यनेन सर्वविरतिधराणामेव गुरुशब्देन ग्रहणं योग्यम् / ) लोकविरुद्धानि सर्वनिन्दास्वच्छाशयधर्मकरणहसनं जनपूजनीयावज्ञादीनि / तेषां त्यागः परिहारः, गुरुजनपूजा मातृपित्रादिपूजा, परार्थकरणं च परोपकारक्रिया च / शुभगुरुयोगः सुन्दरगुरुसम्बन्धःतद्वचनसेवना गुरुवचनसेवा यथाशक्ति आभवमासंसारमाजन्म वा / अखण्डा सकला तव प्रभावाद् भवत्विति सम्बन्धः // 34 // आदिकर्म(मि)कमाश्रित्येदमभिहितमन्येषां तूत्तरोत्तरगुणवृद्ध्या स्वगुणस्थानकानुरूपं भवतीति सामान्येनैव प्रणिधानमाश्रित्याह -