SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ गाथा-२९-३१ _ ४-पूजाविधि-पञ्चाशकम् ____53 चैत्यवन्दनान्तरविधेयमाह - एयस्स समत्तीए, कुसलं पणिहाणमो उ कायव्वं / तत्तो पवित्ति विग्घजय, सिद्धी तह य थिरीकरणं // 173 // 4/29 एतस्य वन्दनस्य समाप्तौ सत्यां कुशलं कुशलहेतुत्वात् / प्रणिधानमैकाग्र्यम् / 'मो' ['ओ' अटी.] इति निपातः, 'तुशब्द एवकारार्थः / कर्तव्यं विधेयमेव कुशलप्रणिधानम् / ततः प्रणिधानात् प्रवृत्तिधर्मव्यापारविषया प्रशमप्रधाना। विघ्नजयो हीनमध्यमोत्तमविघ्नाभिभवरूपः / सिद्धिः प्रस्तुतधर्मव्यापाराणां निष्पत्तिः तथा स्थिरीकरणं च स्वपरगतानां धर्मयोगानामेव प्रवृत्यादीनि वाञ्छता प्रणिधानमवश्यकरणीयम् / तदभावे प्रवृत्त्याद्यसिद्धेः // 29 // ननु च प्रणिधानं प्रार्थनारूपत्वाद् भोगादिनिदानवत् परिहर्तव्यमित्याशङ्क्याह - एत्तो च्चिय न नियाणं, पणिहाणं बोहिपत्थणासरिसं / सुहभावहेउभावा, णेयं इहराऽपवित्ती उ॥१७४॥ 4/30 अत एव प्रवृत्यादिहेतुत्वादेव कुशलप्रणिधानं न निदानम् / रागद्वेषमोहगर्भस्य क्लिष्टाशयस्य भोगगृद्धिपरस्य निदानत्वान्न चैवंरूपमेतद् प्रणिधानं बोधिप्रार्थनासदृशम्, समयनीत्या यथा बोधेः प्रार्थना समये न निदानं प्रसिद्धम् / यत् प्रोक्तम् - भासा असच्चमोसा, नवरं भत्तीए भासिआ एसा। ण हुखीणपेज्जदोसा, देंति समाहिं व बोहिं वा ॥[आवश्यकनियुक्ति गाथा-१०९५] शुभभावहेतुभावाच्छुभाध्यवसायहेतुत्वेन ज्ञेयं ज्ञातव्यम् इतरथा शुभभावहेतुत्वमन्तरेण अप्रवृत्तिरेवाप्रवर्तनमेव प्रणिधाने स्यात् // 30 // एवं तु इट्टसिद्धी, दव्वपवित्ती उ अण्णहा नियमा / तम्हा अविरुद्धमिणं, णेयमवत्थंतरे उचिए // 175 // 4/31 एवमेव प्रणिधानसहित एव वन्दने विधीयमाने, इष्टसिद्धिरिष्टनिष्पत्तिः, द्रव्यप्रवृत्तिस्तु द्रव्यप्रधाना प्रवृत्तिर्द्रव्यक्रियैव अन्यथा प्रणिधानमन्तरेण नियमादवश्यंभावेन / तस्मादविरुद्धमिदं प्रणिधानं ज्ञेयमवस्थान्तरे पुरुषावस्थाविशेष उचिते योग्य आदिकर्मिकत्वादौ // 31 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy