SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 52 ४-पूजाविधि-पञ्चाशकम् गाथा-२६-२८ कुशलपरिणामः शुभाशयः सुन्दरभावात् तेषां स्तुति-स्तोत्राणां सुन्दरत्वात् / इतरस्मिन्नपि अर्थापरिज्ञानेऽपि तथाविधस्तोत्रापेक्षया रत्नज्ञातेन // 25 // रत्नोदाहरणमेवाह - जरसमणाई रयणा, अण्णायगुणा वि ते समिति जहा / कम्मजराई थुइमाइया वि तह भावरयणा उ // 170 // 4/26 जरशमनादीन्यादिशब्दाच्छूलशमनादिग्रहः, रत्नानि पृथिवीपरिणामानि / अज्ञातगुणान्यप्यनिश्चितगुणान्यपि / तान् ज्वरशूलादीन् शमयन्ति निवर्तयन्ति, यथाऽयं दृष्टान्तः, द्राष्टान्तिकमाह-कर्मज्वरादीन् स्तुत्यादीन्यप्यपायहेतुं तथा भावरत्नानि तु स्तुतिस्तोत्राणि भावरत्नकल्पानि शमयन्ति // 26 // ता एयपुव्वगं चिय, पूयाए उवरि वंदणं णेयं / अक्खलियाइगुणजुयं, जहाऽऽगमं भावसारं तु // 171 // 4/27 तत् तस्मादेतत्पूर्वकमेव स्तुतिस्तोत्रपूर्वकमेव पूजाया उपरि वन्दनं चैत्यवन्दनं ज्ञेयमवबोद्धव्यम् / अस्खलितादिगुणयुतमस्खलितामिलितव्यत्यानेडिताहीनस्वरादियुक्तम् / यथागमं यथाश्रुतम्, न तदतिक्रमेण, भावसारं तु भावसारमेव // 27|| किमेतत्पूर्वकं चैत्यवन्दनं भावसारं प्रशस्यत इत्याह - कम्मविसपरममंतो, एवं एयं ति बेंति 'सव्वण्णू / मुद्दा एत्थुस्सग्गो, अक्खोभो होइ जिणचिण्णो // 172 // 4/28 कर्मविषपरममन्त्रः तथाऽतदपरिहारकारित्वेन एवमुक्तनीत्या एतदिति वचनं ब्रुवते सर्वज्ञाः [(समयण्णू) = समयज्ञा इति पाठान्तरम् - अटी] / उपादेयप्रकर्ष एतदिति भावः / मुद्राऽनुल्लङ्घनीयरूपा क्षुद्रसत्त्वानां तथाविधचिह्नरूपा वा अत्र चैत्यवन्दने उत्सर्गः कायोत्सर्गः अक्षोभोऽचलितस्वरूपो भवति।जिनचीर्णो जिनाचरितः श्रुतावधिमनःपर्यायकेवलिजिनाचरितत्वाज्जिनकल्पिकाचरितत्वाच्च / चीर्णं प्रवासिव्रतमिति विशिष्टप्रयुक्तेः / चीर्णशब्दः संस्कृतेऽपि द्रष्टव्यः / / 28 / / (1. समयण्णु अटी. / )
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy