SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ गाथा-२२-२५ ४-पजाविधि-पञ्चाशकम् भृत्या अपि स्वामिनो नरपतेः इत्येवं यत्नेन कुर्वन्ति ये तु स्वनियोगं स्वाधिकारम्, भवन्ति फलभाजनमैहलौकिकभोगफलपात्रम्, ते भृत्याः / इतरेषामविनीतत्वात् क्लेशमात्रंतु क्लेशमात्रमेव विवक्षितफलविकलत्वात् // 21 // भुवणगुरूण जिणाणं पि, विसेसओ एवमेव दट्टव्वं / ता एवं चिय पूया, एयाण बुहेहिं कायव्वा // 166 // 4/22 भुवनगुरूणां जिनानामपि विशेषत एवमेव द्रष्टव्यम् / यत्नेन कुर्वतां पूजाविधानफलभावत्वम् (फलभाजनं अटी.) द्रष्टव्यम् / तत् तस्मात् एवं पूजा एतेषां जिनानां बुधैर्विद्वद्भिः कर्तव्या // 22 / / (1. तु-अटी. / 2 एष एव-अटी. / ) 'तस्मिन् बहुमानसारेत्युक्तम्', [4-18 गाथायाम्] तमेवाधिकृत्याह - बहुमाणोऽवि हु एवं, जायइ परमपयसाहगो नियमा / सारथुइथोत्तसहिया, तह य चितिवंदणाओ य // 167 / 4/23 बहुमानोऽपि प्रीतिविशेष [षोऽपि] एवं विधिप्रवृत्तस्य जायते / परमपदसाधकोः मुक्तिनिर्वर्तकः नियमात् नियमेन, सारस्तुतिस्तोत्रसहितात् तथा च चैत्यवन्दनात्तु चैत्यवन्दनाच्चैव बहुमानः सारस्तुत्यादियुक्तात् / / 23 / / सारस्तुति-स्तोत्रस्वरूपाख्यानायाह - सारा पुण थुइथोत्ता, गंभीरपयत्थविरइया जे उ। सब्भूयगुणुक्कित्तणरूवा खलु ते जिणाणं तु // 168 // 4/24 साराणि पुनः स्तुति-स्तोत्राणि गम्भीरपदार्थविरचितानि यानि तु पदान्याश्च पदार्थाः / गम्भीराश्च ते पदार्थाश्च तैर्विरचितानि दृब्धानि / गम्भीरत्वं च पदानां गम्भीरोक्त्यार्थानां तु सूक्ष्मबुद्धिगम्यतया महामतिग्रथितत्वेन सद्भूतगुणोत्कीर्तनरूपाणि खलु विद्यमाननिरूपचरितगुणप्रतिपादनस्वरूपाण्येव तानि स्तुतिस्तोत्राणि, जिनानां तु सम्बन्धीनि विषयमाहात्म्यमनेन दर्शयति / विषये वस्तुप्रयुक्तमनुष्ठानं श्रेयसे सम्पद्यत इति न्यायदर्शनार्थं चैवमभिधानम् // 24 // किं पुनरेवंरूपाणि स्तुतिस्तोत्राणि प्रशस्यन्त ? इत्याह - तेसिं अत्थाहिगमे, नियमेणं होइ कुसलपरिणामो। सुंदरभावा तेसिं, इयरम्मि वि रयणनाएणं // 169 // 4/25 तेषां स्तुतिस्तोत्राणाम् अर्थाधिगमेऽभिधेयार्थपरिज्ञाने, स्तोतृणां नियमेन भवति
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy