________________ ४-पूजाविधि-पञ्चाशकम् गाथा-१७-२१ अथ किं भावप्राधान्यात् प्रवरसाधनोपदेश इत्याशङ्क्याह - इयलोयपारलोइयकज्जाणं पारलोइयं अहिगं / तं पि हु भावपहाणं, सो वि य इय कज्जगम्मो त्ति // 161 // 4/17 इहलोक-पारलौकिककार्ययोर्मध्ये पारलौकिकमधिकं तत्प्रधानत्वाद्विदुषां तदपि च पारलौकिकं धर्मकार्यं भावप्रधानं वर्त्तते / सोऽपि च भावः इत्येवं कार्यगम्य एवंविधप्रवरपूजासाधनोपनयनावसेयः, इति हेतौ परिसमाप्तौ वा // 17 // प्रस्तुतवस्तुनिगमनायाह - ता नियविहवणुरूवं, विसिढ़पुण्फाइएहिं जिणपूया / कायव्वा बुद्धिमया, तम्मी बहुमाणसारा य // 162 // 4/18 तस्मान्निजविभवानुरूपं स्वकीयविभवसदृशं क्रियाविशेषणम् / विशिष्टपुष्पादिकैः प्रागुक्तैः जिनपूजा कर्त्तव्या बुद्धिमता प्रेक्षावता / तस्मिन् जिने भगवति बहुमान आन्तरः प्रीतिविशेषः, तद्भावाच्च बहुमानविशेषात् फलविशेषसिद्धः // 18 // विधिना इत्युक्तम् [4/3 गाथायाम्] तमेव लेशतो दर्शयति - एसो चेव इह विही, विसेसओ सव्वमेव जत्तेण / जह रेहइ तह सम्मं, कायव्वमणण्णचेटेणं // 163 // 4/19 एष एवेह पूजायां विधिरूपदेश उपाय इति यावत् / विशेष [तः ] पुनरयं सर्वमेव प्रागुक्तम्, यत्नेनादरेण यथा राजते शोभते तथा सम्यक् कर्तव्यमनन्यचेष्टेन नान्या शरीरविषया चेष्टा यस्य, तेनानन्यव्यापारयुक्तेनेत्यर्थः // 19 // वत्थेण बंधिऊणं, नासं अहवा जहासमाहीए। वज्जेयव्वं तु तदा, देहम्मि वि कंडुयणमाई // 164 // 4/20 वस्त्रेण बद्ध्वावृत्याऽऽच्छाद्य नासां नासिकामष्टपुटेन, सामान्येन वा, यथासमाधि चेतः स्वास्थ्यानतिक्रमेण बद्ध्वापीत्यर्थः / वर्जयितव्यं तु तदा जिनपूजाकाले, देहेऽपि कण्डूयनादिः, आदिशब्दाद्देहसंस्कार-परिकर्माङ्गमर्दनादिग्रहः / / 20 / / किं विधियत्नः प्रशस्यत इत्याह - भिच्चा वि सामिणो इय, जत्तेण कुणंति जे उ सनिओगं / होंति फलभायणं ते, इयरेसि किलेसमेत्तं तु // 165 // 4/21