SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 49 गाथा-१४-१६ ४-पजाविधि-पञ्चाशकम् विशिष्टपुष्पादिभिः पूजोक्ता, [4-3 गाथायाम्] तामेव व्यक्तितोऽनुग्रहार्थमुपदिशति - गंधवरधूवसव्वोसहीहिं उदगाइएहिं चित्तेहिं / सुरहिविलेवणवरकुसुमदामबलिदीवएहिं च // 158 // 4/14 सिद्धत्थयदहिअक्खयगोरोयणमाइएहिं जहलाभं / कंचणमोत्तियरयणादिदामएहिं च विविहेहिं // 159 // 4/15 जुग्गं / गन्धाः गन्धव विशिष्टसुरभिद्रव्याणि / वरधूपो गन्धयुक्तिप्रसिद्धः / सर्वौषधिरपि तत्प्रसिद्धैःअथवा सर्वाश्च ता औषधयश्च / सर्वेषां पदानां द्वन्द्वस्ताभिर्गन्ध-वरधूप-सौषधीभिरुदकादिकैश्च चित्रैर्नानाप्रकारैः / सुरभिविलेपनं चन्दनायुपदेहे वरकुसुमदामानि प्रधानसुरभिपुष्पमालाः / बलिरूपहारः दीपकाः प्रदीपाः प्रसिद्धा एव तैः सुरभि-विलेपन-वरकुसुम-दाम-बलि-दीपकैश्च // 14 // सिद्धार्थकाः सर्षपाः दध्यक्षता दध्ना संसृष्टा अक्षताः / पृथग् वा द्वयोर्ग्रहणम् / गोरोचना गोपित्तप्रभवा प्रसिद्धैव, आदिशब्दाच्छेषमङ्गल्यवस्तुपरिग्रहस्तैः यथालाभं यथासम्पत्ति / काञ्चनमौक्तिकरत्नादिदामकैश्च कनकावलि-मुक्तावलि-रत्नावल्यादिरूपैर्विविधैरनेकविधानैः // 15 // किं पुनर्विशिष्टपुष्पादिभिः पूजोच्यत इत्याह - पवरेहिं साहणेहिं, पायं भावो वि जायए पवरो। न य अण्णो उवओगो, एएसि सयाण लट्ठयरो // 160 // 4/16 प्रवरैरुत्कृष्टैः, साधनैः पूजोपकरणद्रव्यैः, प्रायो बाहुल्येन, भावोऽपि जायते प्रवरः प्रधानः। क्वचिदनुत्कृष्टवस्तुभिरपि पूजां कुर्वन् उत्कृष्ट एव क्षयोपशमविशेषाद् भावो भवतीति प्रायो ग्रहणम् / भूयस्त्वेन तु सहकारिविशेषाद् भावविशेषः / यथोक्तम् - गुणभूइढे दब्बंमि, जेणमत्तोऽहियत्तणं भावे। इइ वत्थूओ इच्छड़, ववहारो निज्जरं विउलं॥[ ] [गुणभूयिष्ठे द्रव्ये, येन मात्राधिकत्वं भावे / इति वस्तुत इच्छति, व्यवहारो निर्जरां विपुलाम् // ] न चान्य उपयोगः स्वफलसाधनव्यापाररूपः, एतेषां प्रवरसाधनानां सतां विद्यमानानां लट्ठयरो कान्ततरोऽभिलषिततरः // 16 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy