________________ 48 ४-पूजाविधि-पञ्चाशकम् गाथा-११-१३ यतनया स्नानादिगुणायेत्युक्तम्, 4-3 गाथायाम् तामेवाह - भूमीपेहणजलछाणणाइ जयणा उ होइ पहाणाओ / एत्तो विसुद्धभावो, अणुहवसिद्धो च्चिय बुहाणं // 155 // 4/11 भूमिप्रेक्षणजलशोधनादिर्यतना तु भवति / तत्र भूमिप्रेक्षणं कीटिकानगरपरिहारेण, जलशोधनं पूतरकादिपरिहारेण, आदिशब्दादागन्तुकसत्त्वासङ्कीर्णताग्रहः / स्नानादौ स्नानविलेपनपुष्पमालादौ तद्योनिजाऽऽगन्तुकसत्त्वपरिहारेण अतो यतनातो विशुद्धभावो विशुद्धाध्यवसायः पूजाविषय एव अनुभवसिद्ध एव बुधानां स्वसंवेदनप्रत्यक्षसिद्ध एव विदुषाम् [1. इह च प्राकृते औकार श्रुतेरभावात् ण्हाणाओ इत्येवं पठ्यते - अटी.] // 11 // व्यतिरेके दोषमाह - अन्नत्थारंभवओ, धम्मेऽणारंभओ अणाभोगो / लोए पवयणखिसा, अबोहिबीयं ति 'दोसाय // 156 // 4/12 अन्यत्र स्वगृहव्यापारेषु आरम्भवतः तत्प्रवृत्तस्य धर्मेऽनारम्भतो [अनारम्भक:-अटी.] अनारम्भाद्धर्मविषयारम्भपरिहारात्, अनाभोगोऽज्ञानबहुलत्वं शास्त्रोक्तस्याप्यारम्भस्य परिहारात् पूजाविषयं ह्यारम्भमागमोक्तत्वात् करोति, न स्वेच्छया, तमपि परिहारतो अज्ञानमनाभोगो वर्तते। लोके प्रवचनखिसा अबोधिबीजमिति दोषाय [दोसा य [दोषाश्च] च शब्दोऽनाभोगापेक्षया समुच्चयार्थः - अटी.] सर्वो विशिष्टलोकः शरीरशौचपूर्वकं देवपूजादौ वर्त्तते / तद्व्यवहारान्यथाकरणे लोके निन्दा प्रवचनस्य सा चाबोधिबीजम्, स्नानादिपरिहारेण पूजाप्रवृत्तस्येति दोषाय सम्पद्यते / तस्मात्तदोषपरिहारार्थं द्रव्यतः शुचिना पूजा विधेया। भावे विशुद्धवृत्तिना पूजा विधेयेति // 12 // (1. दोसा य अटी. / ) तद्विपक्षव्यवच्छेदायाह - अविसुद्धा वि हु वित्ती, एवं चिय होइ अहिगदोसा उ / तम्हा दुहा वि सुइणा, जिणपूया होइ कायव्वा // 157 // 4/13 __अविशुद्धापि स्वावस्थाऽनुचितापि / हुर्वाक्यालङ्कारे, वृत्तिर्वर्तनोपायरूपा / एवमेव प्रवचनखिसावद् भवत्यधिकदोषा तु प्रभूतदोषैव / तस्माद् द्विधापि द्रव्यभावाभ्यां शुचिना जिनपूजा भवति कर्तव्या // 13 //