________________ 46 ४-पूजाविधि-पञ्चाशकम् गाथा-४-७ [स्तुतिश्चैकश्लोकप्रमाणा, स्तोत्रं तु बहुश्लोकमानम् - अटी.] तत्कृतगौरवविशेषयुक्त्या, तेभ्यः बहुमानविशेषसम्भवात् जिनपूजा भवति कर्तव्या // 3 // एनामेव गाथां लेशतः प्रतिपदं व्याचष्टे - कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ / इय सव्व च्चिय किरिया, नियनियकालम्मि विण्णेया // 148 // 4/4 काले स्वोचिते प्रस्तावे, क्रियमाणं कृषिकर्म लोकप्रसिद्धं बहुफलं बहुशस्यं यथा भवति यथा सम्पद्यते इत्येवं सर्वैव क्रिया चेष्टा निज निजकाले यथा स्वसमये विज्ञेया फलवती // 4 // सो पुण इह विण्णेओ, संझाओ तिण्णि ताव ओहेण / वित्तिकिरियाऽविरुद्धो, अहवा जो जस्स जावइओ // 149 // 4/5 स कालः पुनरिह पूजायां विज्ञेयो ज्ञातव्यः / सन्ध्यातिप्रस्तावदोघेन सामान्येन सन्ध्यात्रयोपलक्षितत्वात् वृत्तिर्वर्तनोपायः शिल्पवाणिज्यादि तत्क्रियाया अविरुद्धोऽबाधको अथवा यो यस्य पूजाकारिणः पुरुषस्य यावान् यत्परिणामः / / 5 / / ननु किं वृत्तिक्रियाऽविरुद्धः पूजायाः कालः प्रशस्यत इत्याह - पुरिसेणं बुद्धिमया, सुहवुढेि भावओ गणंतेणं / जत्तेणं होयव्वं, सुहाणुबंधप्पहाणेण // 150 // 4/6 पुरुषेण बुद्धिमता बुद्धिसम्पन्नेन, शुभवृद्धि पुण्योपचयं भावतः परमार्थतः गणयता सतात्मनः कलयता, यत्नेन सर्वादरेण भवितव्यम्, शुभानुबन्धप्रधानेन कुशलानुबन्धपरेण यथा पुण्यसन्तानः प्रादुर्भवति तथा यत्नो विधेयः स च वृत्तिक्रियाऽविरुद्धसमयः पूजासेवनेनेति भावः / / 6 / / व्यतिरेकदोषमाह - वित्तीवोच्छेयम्मि य, गिहिणो सीयंति सव्वकिरियाओ। निरवेक्खस्स उ जुत्तो, संपुण्णो संजमो चेव // 151 // 4/7 वृत्तिव्यवच्छेदे च जीवनोपायव्यवच्छित्तौ च गृहिणो गृहस्थस्य सीदन्ति न प्रवर्तन्ते, सर्वक्रिया धर्मलोकव्यवहारगताः, निरपेक्षस्य तु सर्वक्रियास्विति गम्यते / युक्त उपपन्नः सङ्गतः / सम्पूर्णः संयम एव साधुधर्म एव साधुवदन्यथा सर्वथा निरपेक्षत्वासिद्धेः // 7 //