SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 40 ३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-३५-३८ स्वरूपेण युक्तरूपत्वात् // 34 // एतदेव व्यनक्ति - दव्वेणं टंकेण य, जुत्तो छेओ हु रूवगो होइ / टंकविहूणो दव्वे वि न खलु एगंतछेओ त्ति // 129 // 3/35 द्रव्येण रूप्यसुवर्णादिना, टङ्केन च लक्षणेन च रेखाविन्यासरूपेण युक्तः समन्वितः छेक एव रूपको भवति / हुरेवकारार्थः टङ्कविहीनो लक्षणविहीनो, द्रव्येऽपि रूपादौ सत्यपि, न खल्वैकान्तश्छेक इति नैव व्यवहारावतारी // 35 // अहव्वे टंकण वि, कूडो तेण वि विणा उ मुद्द त्ति / फलमेत्तो एवं चिय, मुद्धाण पयारणं मुत्तुं // 130 // 3/36 अद्रव्ये द्रव्याभावे, टङ्केनापि लाञ्छनेनापि कूट:-असत्यः, तृतीयभङ्गपतितः तेनापि विना टकेन च द्रव्येण च विप्रयुक्तो, मुद्रेति चिह्नप्रायः, फलं साध्यम्, अतो वन्दनायाः, एवमेव, भङ्गानुपूव्यैव उभयसम्पन्नः सम्पूर्णफलमितरथा विकलम् / मुग्धानामज्ञानानाम्, प्रतारणं (वञ्चनम्अटी.) मुक्त्वा , ते ह्यन्यथा प्रतार्यन्त एव // 36 // 1 एयं चिय अटी. / तं पुण अणत्थफलयं, नेहाहिगयं जमणुवओगि त्ति / आयगयं चिय एत्थं, चिंतिज्जइ समयपरिसुद्धं // 131 // 3/37 तत्पुनर्वन्दनम् अनर्थफलदं स्वपरयोः नेहाधिकृतं नात्र प्रस्तुतम्, यदनुपयोगीति यस्मात्, तन्नोपयुज्यते / परमार्थविचारे, आत्मगतमेवात्र चिन्त्यते वन्दनम्, समयपरिशुद्धमागमविशुद्धम् न तु परेषामन्यथाकरणे परिवादः करणीय इति तात्पर्यम् // 37 / / एवं छेक-कूटकरूपकज्ञातं वन्दनायां योजयति - भावेणं वण्णादिहिं, चेव सुद्धेहिं वंदणा छेया / मोक्खफल च्चिय एसा, जहोइयगुणा य नियमेणं // 132 // 3/38 भावेन सम्यक्त्वेनोपयोगेन च, वर्णादिभिश्चैवाऽक्षराऽभिव्याहाराऽर्थैः शुद्धैः अविपरीतैरुपलक्षिता वन्दना छेका शुद्धा प्रशतेत्यर्थः / मोक्षफलैवैषा न संसारफला भावक्रियागर्भा, यथोदितगुणा च शास्त्रप्रतिपादितगुणाव्यभिचारिणी च, नियमेन नियोगेन, शास्त्रे गुणा विघ्नोपशमादयो वन्दनाया उच्यन्ते, तस्याः सम्भवन्तीति भावः // 38 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy