SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 38 ३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-२८-३० विविदिषा भेदा यस्याः योनेः स तथा / यद् यस्मात्प्रायशस्तु योनिरिति धर्मयोनिरिति / "धृतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्त्व-धर्मयोनयः [ ] इति वचनात् / सद्ज्ञानाद्युदये सम्यग्ज्ञानाद्युत्पत्तौ, प्रतिष्ठिता योगशास्त्रेषु प्रसिद्धेष्वित्यर्थः // 27 // " इयं च जिज्ञासा कदा भवतीत्याह - पढमकरणोवरि तहा, अणभिणिविट्ठाण संगया एसा / तिविहं च सिद्धमेयं, पयडं समए जओ भणियं // 122 // 3/28 प्रथमकरणस्य यथाप्रवृत्तकरणस्य उपर्युपरिष्टात्, तथानभिनिविष्टानामभिनिवेशरहितानाम्, सङ्गतैषा युक्तरूपा, त्रिविधं च सिद्धमेतत् करणम्, प्रकटं समये सिद्धान्ते, यतो भणितमुक्तम् // 28 // एतदेव त्रैविध्यमाह - करणं अहापवत्तं, अपुव्वमणियट्टि चेव भव्वाणं / इयरेसिं पढमं चिय, भण्णइ करणं ति परिणामो // 123 // 3/29 करणमध्यवसायरूपम्, यथाप्रवृत्तं स्वाभाविकमनादिसंसारव्यवहारप्रवृत्तमभिन्नग्रन्थेरिहापूर्वकरणादधस्तात् सकलमेव गृह्यते / अपूर्वमित्यपूर्वकरणम्, यद्बलेन ग्रन्थि भिनत्ति / अनिवर्येतच्च सम्यक्त्वप्राप्तेर्ननिवर्तत इत्यनिवति / एतच्च सम्यक्त्वोत्पत्तेरधस्ताद्, यतोऽनिवृत्तिकरणं शिरसि सम्यक्त्वमवाप्नोति एतत्करणत्रयं, भव्यानां भाविनी सिद्धिरेषामिति, भव्यसिद्धय इति वक्तव्ये सिद्धिपदलोपाद् भव्या इत्युक्तम्, योग्यानां वा, इतरेषामभव्यानाम्, प्रथममेव यथाप्रवृत्तमेव भण्यत अभिधीयते / करणमित्यनेन शब्देन परिणामो जीवाध्यवसाय:, सत्त्वाध्यवसायस्थानान्येतानीत्युक्तं भवति // 29 / / एषामेव विभागं प्रदर्शयन्नाह - जा गंठी ता पढम, गंठिं समइच्छओ भवे बितियं / अणियट्टीकरणं पुण, सम्मत्तपुरक्कडे जीवे // 124 // 3/30 यावद्ग्रन्थिर्ग्रन्थिर्भेदस्थानम्, तावत् प्राक्कालभावि / प्रथममिति, यथाप्रवृत्तम्, ग्रन्थिघनरागद्वेषपरिणामलक्षणम्, समतीच्छतः समतिक्रामतो भिन्दानस्येत्यर्थः / भवेद् द्वितीयमपूर्वकरणम्, अनिवृत्तिकरणं पुनः प्रागुक्तं समयोक्तस्वरूपं वा पुरस्कृतसम्यक्त्वे प्राक्कृते, पूर्वाऽपरनिपातोऽतन्त्रमितिकृत्वोक्तम्, सम्यक्त्वपुरस्कृते जीव आत्मनि भवेदिति, यत एवं करणत्रयमुपवतितम् // 30||
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy