________________ गाथा-२४-२७ ३-चैत्यवन्दनविधि-पञ्चाशकम् 37 सकृत् सञ्जातो भावो भावान्तरं करोति [११तमी गाथायां] इत्युक्तं प्राग् भावरहित उपयोगोऽप्यनुपयोग इति वा वेदितम्, तत्र किमर्थमयं भाव एव स्तूयत इत्याह - खाओवसमिगभावे, दढजत्तकयं सुहं अणुट्ठाणं / परिवडियं पि हु जायइ, पुणो वि तब्भाववुड्डिकरं // 118 // 3/24 क्षायोपशमिकभावे कर्मक्षयोपशमनिर्वृत्तपरिणामे, दृढयत्नकृतं बलवत्प्रयत्नसम्पादितम्, शुभमनुष्ठानं कुशलकर्तव्यं चैत्यवन्दनादि, प्रतिपतितमपि कथञ्चित्कर्मदोषाद्, [हु शब्दोऽवधारणार्थः, अटी.]भाव-क्रियाभ्यां जायते [एव]पुनरपि कालान्तरे, तद्भाववृद्धिकरं प्राक्समासेऽपि तत् क्षायोपशमिकवन्दनादिभावकरम्, अतो भावः प्रशस्यते // 24 // अणुहवसिद्धं एयं, पायं तहजोगभावियमईणं / सम्ममवधारियव्वं, बुहेहिं लोगुत्तममईए // 119 // 3/25 अनुभवसिद्धमेतत् स्वसंवेदनसिद्धमेतत्, पूर्वोक्तं शुभानुष्ठानं पुनरपि जायत इति प्रायो बाहुल्येन तथायोगभावितमतीनां विशिष्टधर्मव्यापारवासितधियाम् सम्यगवधारयितव्यं सम्प्रधारणी भिः, लोकोत्तममत्या संज्ञानगर्भया // 25 / / किं पुनरानन्तर्येण भाववन्दनाया लिङ्गमित्याह - जिण्णासा वि हु एत्थं, लिंगं एयाए हंदि सुद्धाए। निव्वाणंगनिमित्तं, सिद्धा एसा तयट्ठीणं // 120 // 3/26 जिज्ञासाऽपि, अपिशब्दात् केवलं वेलाविधान-तद्गतचित्तादिः, अत्र प्रक्रमे लिङ्ग चिह्नम् एतस्या वन्दनायाः, हन्त शुद्धाया भावरूपाया इति यावत् / यस्मानिर्वाणाङ्गनिमित्तं मोक्षकारणसम्यग्ज्ञानादिनिमित्तम् / सिद्धा एषा वन्दना, जिज्ञासा वा / तदर्थिनां वन्दनार्थिनां निर्वाणार्थिनां वा // 26 // किमित्येवं जिज्ञासा शस्यते इत्याह - धिइसद्धासुहविविदिस-भेया जं पायसो उ जोणि त्ति / सण्णाणादुदयम्मी, पइट्ठिया जोगसत्थेसुं // 121 // 3/27 तत्र धृतिः स्वास्थ्यमुद्वेगादिचित्तदोषपरिहारेण निर्वृतिः / श्रद्धा तत्त्वरुचिः / सुखा