SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-१५-१७ तत् तस्माद् दृढमत्यर्थम्, ततो मन्त्रादेः अधिका प्रकर्षवती / यत्नेऽपि चाधिकत्वमाधिक्यं भव्यस्यैतदनुसारेण प्रधानफलसिद्ध्यनुसारेणाधिकभावानुसारेण वा // 14 // वन्दनागतप्रयत्नफलमाह - पायं इमीए जत्ते, न होइ इहलोगिया वि हाणि त्ति / निरुवक्कमभावाओ, भावो वि हु तीए छेयकरो // 109 // 3/15 __ प्रायो बाहुल्येन, अस्यां वन्दनायां, यत्ने क्रियमाणे सति, वेलादिक्रमेण, न भवति न सञ्जायते ऐहलौकिकापीहलोकगतापि हानिरिति धनधान्यादिविषया, तथाविधादृष्टसामर्थ्यात् निरुपक्रमभावान्निरुपक्रमत्वात् क्लिष्टकर्मणाम्, भावोऽपि हानेः पूर्वोक्तायाः, सद्भावोऽपि सत् [हु शब्दो वाक्यालङ्कारेऽवधारणे वा-अटी.] तस्याः हानेः छेदकरः पर्यन्तकरः, न पुनरन्यदा हानिर्भवतीत्यभिप्रायः / इदमुक्तं भवति-निरुपक्रमपूर्वकृतक्लिष्टकर्मवशात् यद्यपि कथञ्चिदैहलौकिकी हानिर्भवति, तथापि तदाशयोपात्त-पुण्यकर्म-सामर्थ्यादमुष्मिन् लोके न तथाविधा हानिः सम्पत्स्यते, पुण्यप्रतिबद्धशक्तित्वादिति // 15 / / इदमेव वस्तु तन्त्रान्तरपरिभाषया समर्थ्यमान आह - मोक्खद्धदुग्गगहणं, एयं तं सेसगाण वि पसिद्धं / भावेयव्वमिणं खलु, सम्मं ति कयं पसंगेणं // 110 // 3/16 मोक्षाध्वनि प्रवृत्तस्य पुंसः, दुर्गग्रहणं दुर्गाश्रयणम्, यथाऽध्वनि तस्करादिभिरभिभूयमानस्य पर्वतवनदुर्गादिसमाश्रयणं परित्राणहेतुः तत्कृतव्यसनेभ्यः, न ते दुर्गस्थं पराभवितुमलम्, अनेन साम्येन मोक्षाऽध्वदुर्गग्रहणं प्रस्तुतमुच्यते / एतत्प्रस्तुतं तद्भाववन्दनम्, स्वपरिभाषया, शेषाणामपि तन्त्रान्तरीयाणां प्रसिद्धम् / भावयितव्यमिदं खलु भावनीयम्, 'आगमापनीतविपर्ययमलया प्रज्ञया, माध्यस्थमवलम्ब्य परोक्तमिति / मत्सरं विहाय सम्यगित्यविपरीतत्वाच्छोभनमेतदिति / कृतं पर्याप्तम् प्रसङ्गेन वचनविस्तरेण भूयसा, अल्पीयसा वाचा येनैतस्यैवार्थस्य प्रतिपत्तिक्षमत्वात् / / 16 / / (1. विपर्यय एव मल इति विपर्ययमलः, आगमेन अपनीतविपर्ययमल इति / आगमापनीतविपर्ययमलः / ) तदेव द्रव्यभाववन्दनविधिं परिसमाप्य प्रस्तुतां मुद्राविन्यासशुद्धिमाह - पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए / वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए // 111 // 3/17 पञ्चाङ्गः प्रणिपातो वक्ष्यमाणः, स्तवपाठः स्तोत्रपाठः, भवति योगमुद्रया वक्ष्यमाणयैव,
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy