SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 32 ३-चैत्यवन्दनविधि-पञ्चाशकम् गाथा-८-१० द्रव्यशब्दस्तस्यां नास्तीति भावः // 7 // 1. सेसाण-अटी. / न य अपुणबंधगाओ, परेण इह जोग्गया वि जुत्त त्ति / न य न परेण वि एसा, जमभव्वाणं पि निद्दिवा // 102 // 3/8 नच नैव पुनरबन्धकात् परेण प्रागवस्थायाम् इह (भाववन्दनायाम्,-अटी.) योग्यताऽपि युक्तेति, संसारभूयस्त्वादेव / न च न परेणाप्येषा सामान्येन वन्दना शब्दक्रियारूपा, किन्त्वस्त्येव, यद् यस्माद् अभव्यानामपि निर्दिष्टागमे // 8 // किं लिङ्गसद्भावादेषा विज्ञेयेत्याह -- लिंगाण तीए भावो, न तदत्थालोयणं न गुणरागो / नो विम्हओ न भवभयमिय वच्चासो य दोण्हं पि // 103 // 3/9 'लिङ्गानां तस्यां सामान्य[द्रव्य]वन्दनायाम्, भावः सद्भावोऽयं विज्ञेयः न तदर्थालोचनं न वन्दनासूत्रार्थमीमांसा / न गुणरागो न वन्दनाभिधेयानुष्ठेयगुणानुरागः, नो विस्मयो मयाऽप्राप्तपूर्वेयमनादौ संसारे प्राप्तेत्येवंरूपः प्रसादः [प्रमोदो अटी.] / न भवभयं संसारभयम्, विराधनायामिति कृत्वा, व्यत्यासश्च विपर्ययश्च / द्वयोरपि भाव-क्रिययोर्वन्दनागतयोः // 9 // (1. लिंगा ण-अटी.) [1. 'लिंग'त्ति प्राकृते लिंगमतन्त्रम् इति [ ] वचनात् ..... अथवा लिङ्गानां भावः सत्ता, ........ अटी.] साम्प्रतं द्रव्येतरवन्दनाविशेषाभिधित्सयाऽऽह - वेलाए विहाणम्मि य, तग्गयचित्ताइणा य विण्णेओ / तव्वुड्डिभावऽभावेहि, तह य दव्वेयरविसेसो // 104 // 3/10 वेलया प्रतिनियतकालरूपया, विधाने च सङ्गतवाक्-चेष्टारूपे सति, तद्गतचित्तादिना च वन्दनगतचित्तादिना। आदिशब्दाल्लेश्या-तदर्थोपयुक्तत्वादिपरिग्रहो विज्ञेयः, द्रव्येतरविशेषवन्दनाया 'सम्यक्त्वसद्भावश्च तद्वृद्धिभावाभावौ ताभ्याम् / तथा चैवञ्च द्रव्येतरविशेषो द्रव्यभाववन्दनागत विशेषः, अयमत्र वाक्यार्थो-वेलया-विधाने-तद्गतचित्तादिना तवृद्ध्याभावभावेन च भाववन्दना, एतद्वैकल्ये तु द्रव्यवन्दना // 10 // (1. 'अथवा तवृद्धिश्च भावाभावश्च रोमाञ्चादिलिङ्ग्यभक्तिसद्भाव: [वाऽभावः / अथवा 'तद्वृद्धिभावाभाव'श्चेति तवृद्धिभावाभावौ, ताभ्यामसद्भ्यां सद्भ्यां चेति गम्यम्' - अटी.)
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy