SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ गाथा-४-७ ३-चैत्यवन्दनविधि-पञ्चाशकम् ___ 31 साम्प्रतमपुनर्बन्धकलक्षणमाह - पावं न तिव्वभावा, कुणइ न बहु मन्नए भवं घोरं / उचियट्टिइं च सेवइ, सव्वत्थ वि अपुणबंधो त्ति // 98 // 3/4 पापं हिंसादि न तीव्रभावात् करोति, सामान्येन करोत्यपि तथाविधकर्मदोषात् न बहु मन्यते भवं घोरं संसारकारणोपरतचित्तत्वात् तीर्थकराद्याशातनादोषपरिहारेण, उचितस्थितिं च सेवते, यथोचितोपकारकरणेन सर्वत्रापि हीनादौ, अपुनर्बन्धक इत्येभिलिङ्गैर्लक्षणीयः // 4 // सम्यग्दृष्टिलिङ्गान्याह - सुस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए / वेयावच्चे नियमो, सम्मद्दिट्ठिस्स लिंगाइं // 19 // 3/5 शुश्रूषा श्रोतुमिच्छा धर्मशास्त्रविषया, गेयरागिकिन्नरगेयशुश्रूषाधिका जिज्ञासोत्तरकालभाविनी। धर्मरागो धर्मानुरागः कान्तारोत्तीर्णदरिद्रब्राह्मणहविःपूर्णाभिलाषातिरिक्तः / गुरुदेवानां परमपूज्यानां यथासमाधि स्वसमाध्यनतिक्रमेण, यथात्मनः पीडा न भवति, तत्पूजां कुर्वन्तस्तदादेशं वा, वैयावृत्त्ये व्यावृत्तभावे तत्कर्मणि वा, नियमो नियोगो वाऽवश्यं मयैतद्यथाकालं कर्तव्यमित्यवश्यंभावः, सम्यग्दृष्टेलिङ्गानि चिह्नान्येतानि // 5 // चारित्रिलिङ्गान्याह - मग्गणुसारी सडो, पण्णवणिज्जो कियापरो चेव / गुणरागी सक्कारंभसंगओ तह य चारित्ती // 100 // 3/6 मार्गानुसारी चारित्रमोहनीयकर्मक्षयोपशमयोगादस्य च तत्त्वावाप्तिं प्रत्यवन्ध्यकारणत्वात्, तथा श्राद्धः तत्प्रत्यनीकदर्शनमोहनीयहासातिशयात् तथा प्रज्ञापनीयो मार्गानुसारित्व-श्राद्धत्वाभ्यां समवबोधग्रहणयोग्यं तथा क्रियापरश्चैव स्वाध्याय-ध्याना-ऽहिंसादिक्रियाप्रधानश्चैव / गुणरागी विशुद्धाशयत्वात् प्रस्तुतेषु गुणेष्वन्येषु वा पूर्वेष्वनुरागवान् / शक्यारम्भसङ्गतो वन्ध्यारम्भभावनिवृत्तेः यदेव शक्यं कर्तुं तदेवारभते तथा च चारित्री चैवंविधो भवतीति // 6 // एतेऽहिगारिणो इह, न उ सेसा दव्वओ वि जं एसा / इयरीएँ जोग्गयाए, सेंसा ण उ अप्पहाण त्ति // 101 // 3/7 एतेऽपुनर्बन्धकादयस्त्रयोऽधिकारिण इह वन्दनायाम्, न तु शेषा सकृबन्धकादयस्तीव्रभावपापकरणादि चिह्नावसेयाः / प्रदीर्घसंसारिणः द्रव्यतोऽपि, यद् यस्माद् एषा वन्दना, पुनरितरस्या भाववन्दनायाः योग्यतायां सत्यां सैषा प्रदीर्घसंसारिगता, न तु नैव अप्रधानेति कृत्वा, योग्यतावाची
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy