________________ | // तृतीयं चैत्यवन्दनविधि-पञ्चाशकम् // प्रस्तुतदीक्षानन्तरमेव वन्दनं भवतीति तत्प्रतिपादनार्थमिदमाह - नमिऊण वद्धमाणं, सम्मं वोच्छामि वंदणविहाणं / उक्कोसाइतिभेयं, मुद्दाविण्णासपरिसुद्धं // 95 // 3/1 अस्या अपि प्रयोजनाद्यभिसन्धानं पूर्ववत्, नत्वा नमस्कृत्य गुरुकृतनाम्ना वर्धमानं 'अम्मापिउसंतिए वद्धमाण'इति [श्री कल्पसूत्रम्-सूत्र-१०८] वचनात् / सम्यग्वक्ष्याम्यागमानुसारेण, वन्दनविधानं चैत्यवन्दनस्य विधानं विधिमित्यर्थः / उत्कृष्टादित्रिभेदं पाठ-क्रिये भूयसी, समाश्रित्योत्कृष्ट-मध्यमेतरभेदम् / न तु भावतः तस्य स्वल्पस्याप्युत्कृष्टत्वाद् / भेदाच्च वक्ष्यमाणाद् वन्दनस्य त्रयो-मुद्राविन्यासपरिशुद्धम्, मुद्रा च वक्ष्यमाणास्तिस्रस्ताभिः परिशुद्धम् // 1 // तानेव त्रीन् भेदानाह - नवकारेण जहन्ना, दंडगथुइजुयल मज्झिमा णेया / संपुण्णा उक्कोसा, विहिणा खलु वंदणा तिविहा // 16 // 3/2 नमस्कारेण जघन्या स्वल्पा लघ्वी वन्दना, दण्डक-स्तुतियुगलाभ्यां मध्यमा ज्ञेया दण्डकेनैकेन प्रणिपातदण्डकेन दण्डकैर्वा सकलस्तुतियुगलेन च प्रसिद्धेन मध्यमा वन्दना / उत्कृष्टा सम्पूर्णा पर्यन्तवर्तिप्रणिधानसहिता / विधिना खलु वन्दना त्रिविधा त्रिविधैवानेन प्रकारेण // 2 // प्रकारान्तरमधिकृत्याह - अहवा वि भावभेया, ओहेण अपुणबंधगाईणं / सव्वा वि तिहा णेया, सेसाणमिमी न जं समए // 97 // 3/3 अथवापि भावभेदादधिकारगताऽध्यवसायविशेषात् ओघेन सामान्येन, अपुनर्बन्धकादीनामादिशब्दात् सम्यग्दृष्टि-देश-सर्वचारित्रिपरिग्रहः / सर्वाऽपि त्रिधा ज्ञेया वन्दना शेषाणामपुनर्बन्धकात् पूर्वेषां सकृबन्धक-मार्गपतित-मार्गाभिमुखादीनामनधिकारिणां योग्यतावैकल्याद् इयं वन्दना, न नैव, यद् यस्मात् समये सिद्धान्ते प्रतिपादितेति गम्यते // 3 //