________________ गाथा-४३-४४ २-दीक्षाविधि-पञ्चाशकम् इदानीमस्या फलमाह - गरहियमिच्छायारो, भावेणं जीवमुत्तिमणुहविउं / नीसेसकम्ममुक्को , उवेइ तह परममुत्तिं पि // 13 // 2/43 गर्हितमिथ्याचारः परिहतमिथ्याचारः, तल्लक्षणं चेदम् - बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् / इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते // 1 // [ भगवद् गीता अ३ श्लोक 6] भावेनान्तःकरणलक्षणेन जीवन्मुक्तिमनुभूय जीवत एव मुक्तिनिःसङ्गतया शरीरस्थस्यैव मुक्तिस्तामनुभूय निःशेषकर्ममुक्तः सकलकर्मविप्रमुक्तः उपैत्युपगच्छति / तथा परममुक्तिमपि सिद्धिपदरूपाम् // 43 // दीक्षाफलविधानमाह - दिक्खाविहाणमेयं, भाविज्जंतं तु तन्तनीईए। सइअपुणबंधगाणं, कुग्गहविरहं लहुं कुणइ // 94 // 2/44 दीक्षाविधानमेतत् पूर्वोक्तं भाव्यमानं तु चिन्त्यमानमभ्यस्यमानं वा / तन्त्रनीत्यागमनीत्या, सकृदपुनर्बन्धकयोरागमप्रसिद्धयोः सम्बन्धिभ्यां वा भाव्यमानं वा / कुग्रहविरहंकुत्सिताभिनिवेशवियोगमसदभिनिवेशपरित्यागम्, लघु शीघ्रं करोति विधत्त इति // 44 // // दीक्षाविधानपञ्चाशकं द्वितीयं समाप्तम् //