________________ 24 २-दीक्षाविधि-पञ्चाशकम् गाथा-२२-२५ अहिनउलमयमयाहिवपमुहाणं तह य तिरियसत्ताणं / बितियंतरम्मि एसा, तइए पुण देवजाणाणं // 72 // 2/22 ___ अहि-नकुल-मृग-मृगाधिप-प्रमुखानामेतत्प्रभृतीनाम्, तथा च तिर्यक् सत्त्वानां तिर्यक्जीवानाम् / द्वितीयान्तरे द्वितीयप्राकारान्तरे एषा स्थापना, तृतीये पुनरन्तरे, देवयानानां देवयानविमानानामनेकहंसमयूराद्याकारभृताम् / / 22 / / रइयम्मि समोसरणे, एवं भत्तिविहवाणुसारेणं / सुइभूओ उ पओसे, अहिगयजीवो इहं एइ // 73 // 2/23 रचिते समवसरणे पूर्वोक्ते एवमुक्तनीत्या / भक्तिश्च विभवश्च, तयोः, अनुसारेण अनुरूपेणानुरूपक्रमेण, शुचिभूतस्तु द्रव्य-भावशौचाभ्याम्, प्रदोषे रात्रिप्रथमयामे दिवसावसान इति यावत् / अधिकृतजीवः प्रस्तुतजीवो दीक्षार्ह इह स्थाने / एति प्रविशति, तदेव स्थानमध्यास्त इत्यर्थः // 23 // इहैवोपयोगीदमाह - भुवणगुरुगुणक्खाणा, तम्मी संजायतिव्वसद्धस्स / विहिसाहणमोहेणं, तओ पवेसो तहिं एवं // 74 // 2/24 भुवनगुरोर्गुणाः क्षायिकसम्यक्त्व-केवलज्ञान-दर्शनादयः, जीवस्वरूपप्रतिबद्धास्तदपरे च सर्वातिशायिनश्चतुस्त्रिंशदतिशयप्रतिबद्धा देहसौगन्धादयः, तेषामाख्यानं स्वरूपकथनम् / तस्माद्धेतोस्तस्मिन् भगवति भुवनगुरौ सञ्जाततीव्रश्रद्धस्य समुत्पन्नतीव्राभिलाषस्य विधिसाधनमोघेन सामान्येन, ततः प्रवेशस्तस्मिन् समवसरणे / एवं वक्ष्यमाणन्यायेन // 24 // 1 सासण. अटी. / तमेव न्यायमाह - वरगंधपुप्फदाणं, सियवत्थेणं तहच्छिठवणं च / आगइगइविण्णाणं, इमस्स तह पुष्फपाएणं // 75 // 2/25 वरगन्धपुष्पदानम् / तस्य हस्त इति गम्यते / सितवस्त्रेण मङ्गल्यवस्त्रेण मन्त्राऽभिसंस्कृतेन / तथाक्षिस्थगनं च नयनयोरावरणं च, किञ्चित्कालमागतिगत्योः चेष्टाविशेषरूपयोः विज्ञानम्। पूर्वं गत्वा तैरन्यैर्वा पदैः प्रत्यागच्छति / तद्विषयनिमित्तज्ञानमावृतनयनस्य विज्ञेयमस्य प्रस्तुतस्य। तथा पुष्पपातेन हस्तगतपुष्पपतनविशेषेण / अथवा पुरं शरीरं पातीति 'पुष्पो जीवो ऊर्ध्व [च]र:, 1. पुष्प जीवत्वविशिष्ट इति फलितार्थः /