SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 23 गाथा-१८-२१ २-दीक्षाविधि-पञ्चाशकम् जगत्पितामहो ब्रह्मा, ऋषभदेवो, यथोक्तम् - पितुः प्रजानां भरतस्य यत्पिता, पितामहस्तेन निरुच्यते भवान् / अहिंसनादप्यवसङ्क(शङ्क? शङ्करः, स्मरादिभिश्चायमन्यज्जिनो मतः ॥१॥(वं.)[ ] उत्कृष्टो वर्णकः, चन्दनं, वर्णकमाहुश्चन्दनम् इत्युक्तेः / 'व्यपगतमालावर्णकविलेपनस्य' इति च समयप्रसिद्धः [ ] तस्योपरि समवसरणबिम्बरूपस्य उपरिवर्तिसमवसरणव्यवस्थितप्रतिमास्वरूपस्य // 17 // एयस्स पुव्वदक्खिणभागेणं मग्गओ गणहरस्स / मुणिवसभाणं वेमाणिणीण तह साहुणीणं च // 68 // 2/18 ___एतस्य भुवनगुरोः, पूर्वदक्षिणभागेन मार्गतः पृष्ठतः, गणधरस्य गणस्वामिनः, मुनिवृषभाणामतिशयसम्पन्नेतरसाधूनाम्, वैमानिकदेवीनां तथा साध्वीनां च भवति विन्यास इति सम्बध्यते // 18 // इय अवरदक्खिणेणं, देवीणं ठावणा मुणेयव्वा / भवणवइवाणमंतर-जोइससंबंधिणीणं ति // 69 // 2/19 यथाऽस्य त्रिकस्य न्यासतोऽवमेऽपरदक्षिणेन दिग्भागेन देवीनां स्थापना मुणितव्या भवनपति-व्यन्तर-ज्योतिष्कसम्बन्धिनीनामिति, भवनवासि-ज्योतिष्क-वनविवरचारिदेवीक्रमेण // 19 // भवणवइवाणमंतर-जोइसियाणं च एत्थ देवाणं / अवरुत्तरेण नवरं, निद्दिठ्ठा समयकेऊहिं // 70 // 2/20 भवनपति-व्यन्तर-ज्योतिष्काणां चात्र देवानां स्थापनेति सम्बध्यते / अपरोत्तरेण दिग्भागेन नवरं केवलं निर्दिष्टा, समयकेतुभिः समयचिद्वैरागमवेदिभिः // 20 // वेमाणियदेवाणं, नराण नारीगणाण य पसत्था / पुव्वुत्तरेण ठवणा, सव्वेसिं नियगवण्णेहिं // 71 // 2/21 वैमानिकदेवानां नराणां मनुष्याणां नारीगणानां च प्रशस्ता / पूर्वोत्तरेण स्थापना सर्वेषामेव निजकवर्णै रक्त-पीत-सित-वर्णैर्वैमानिकानाम // 2 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy