SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 18 १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-५० तस्स गुरु गिहि व समणो वा' तस्मिन्, धर्माचार्ये च विषयभूते सकलकल्याणहेतुः ममायमित्येवंभूतश्चित्तविन्यासः / उद्यतानामुद्यतो वा प्रयत्नवान् साधूनां विहारो धर्मचेष्टारूपस्तस्मिन्, यथा 'मया प्रव्रज्यां गृहीत्वा अप्रमत्ततया विहर्तव्यम्' इत्येवंभूते, एषां सप्तमीनिर्दिष्टानां बहुत्वं पश्चात् चित्तन्यासस्य च फलमुपदर्शयन्निदमाह-एवमादिचित्तविन्यास एवमादिषु भावनीयेष्वर्थेषु चित्तन्यासश्चित्तनिक्षेपो विधीयमानः संवेगरसायनं संवेग एव रसायनमौषधविशेषस्तद्ददाति, यथा रसायनमुपजीव्यमानं वयोदाढ्यहेतुर्भवति एवं संवेगोऽपि धर्मस्थैर्यादिहेतुरिति, तेनोपमीयते // 49 // एवं नमस्कारपाठात् प्रबोधं यावद्विधिमभिधाय तमेवावर्तमानमतिदिशन्नाह - गोसे भणिओ य विही, इय अणवरयं तु चेट्ठमाणस्स / भवविरहबीयभूओ, जायइ चारित्तपरिणामो // 50 // 1/50 गोसे प्रभाते, भणितश्च विधिः स एव द्रष्टव्य इत्येवमनवरतं तु सततम्, चेष्टमानस्य व्याप्रियमाणस्य, भवविरहबीजभूतः संसारविरहकारणं जायते चारित्रपरिणामः तथाविधक्षयोपशमसम्भव इति // 1/50|| // प्रथमश्रावकधर्मविधि-पञ्चाशकं सम्पूर्णम् //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy