________________ गाथा-४७-४९ __ १-श्रावकधर्मविधि-पञ्चाशकम् 17 अब्रह्मण्यब्रह्मचर्ये, स्त्रीपरिभोगस्वभावे पुनर्विरतिनिवृत्तिर्विधेया भावक्रियाभ्याम्, मोहजुगुप्सा मोहविषया निन्दा, 'दुरन्तोऽयं मोह' इति भावना, यथाशक्ति मोहभेदपरिहारश्च, स्वतत्त्वचिन्ता च स्वरूपचिन्ता च, स्त्रीकलेवराणां कल-मल-मांस-शोणित-पुरीषादिपूर्णतारूपा विधेया / तद्विरतेषु च स्त्रीकलेवरविरतेषु भावतः साधुषु, बहुमान आन्तरप्रीतिरूपो विधेयः // 46 // सुत्तविउद्धस्स पुणो, सुहुमपयत्थेसु चित्तविण्णासो / भवठिइनिरूवणे वा, अहिगरणोवसमचित्ते वा // 47 // 1/47 सुप्तविबुद्धस्य रात्रौ पूर्वं सुप्तः पश्चाद्विबुद्धस्तस्य, पुनरनन्तरनिद्रापगमे सूक्ष्मपदार्थेषु बन्धमोक्षादिषु स्वपरसमयप्रसिद्धेषु, सूक्ष्मेक्षिकया प्रेक्षावन्निरुपितेषु चित्तविन्यासो मनोऽवस्थापनम्, भवस्थितिनिरूपणे वा, जन्म-जरा-मरणप्रबन्धलक्षण-संसारस्थितिनिरूपणे वा, चित्तविन्यासो विधेय इति सर्वत्र सम्बन्धनीयम् / अधिक्रियते नरकादिष्वनेनेति अधिकरणं भूतोपघातस्थानं, तदुपशमे तत्परिहारे चित्तमभिप्रायस्तस्मिन्, कलहोपशमाभिप्राये वा चित्तविन्यासः // 47 // आउयपरिहाणीए, असमंजसचेट्ठियाण व विवागे / खणलाभदीवणाए, धम्मगुणेसुं च विविहेसुं // 48 // 1/48 बाहगदोसविवक्खे, धम्मायरिए य उज्जयविहारे / एमाइचित्तणासो, संवेगरसायणं देइ // 49 // 1/49 जुम्म आयुःपरिहाण्यामायुषः प्रतिसमयं परिहाणिर्भवतीत्येवं भावनीयम्, असमञ्जसानि लोकधर्मविरुद्धानि चेष्टितानि मनो-वाक्-कायव्यापाररूपाणि, तेषां च विपाके यथासमञ्जसचेष्टितानां स्वयमेव जीवेन फलविपाकोऽनुभवनीयः, क्षणे क्षणे यो लाभः शुभाध्यवसायरूपः, सम्यग्ज्ञानादिप्रवृत्तिहेतुः तस्य दीपनायां प्रकाशनायामात्मनश्चित्तविन्यासः, धर्मगुणेषु च स्वाध्यायध्यानाऽहिंसादिष्वागमप्रसिद्धेषु विविधेषु विधिप्रतिषेधरूपतया व्यवस्थितेषु // 48 // यैर्दोषैरर्थकामस्नेहरागादिभिः, स धर्माधिकारी पुरुषो बाध्यते बाधकदोषाः तद्विपक्षे, तत्प्रतिपक्षभावनारूपे यथोक्तम् - अत्थंमि रागभावे, तस्सेव उवज्जणाइ संकेसं / भावेज्ज धम्महेउं, अभावमो तह य तस्सेव ॥१॥[पंचवत्थुगं गाथा-८९१] धर्मोपदेशहेतुस्तत्प्रथमतया बोधिलाभकर: धर्माचार्य यथोक्तमागमे 'धम्मो जेणुवइट्ठो सो