________________ १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-४३-४६ रित्यनुस्मरणम् / योगः शरीरस्थितिहेतुर्व्यापारः प्रश्रवणादिविषयः, तदनन्तरं चैत्यवन्दनं स्वगृह एव, मो इति निपातः / प्रत्याख्यानं च चैत्यवन्दनानन्तरम्, यावच्छक्तिनमस्कारसहितपौरुष्यादि विधिपूर्वमागमोक्तविधानपुरःसरम् // 42 // तह चेईहरगमणं, सक्कारो वंदणं गुरुसगासे / पच्चक्खाणं सवणं, जइपुच्छा उचियकरणिज्जं // 43 // 1/43 तथा चैत्यगृहगमनं सम्भवतः, सत्कारश्च चैत्यानां पुष्पगन्धमाल्यादिभिः, वन्दनं तेषामेव, गुरुसकाशे गुरुसमीपे प्रत्याख्यानं तदेव पूर्वगृहीतं-सविशेषं वा, श्रवणं गुरुसकाश एवागमश्रवणम्, यतिपृच्छा साधुविषयकर्त्तव्यपृच्छा, 'किं कस्य ग्लानादेः कर्त्तव्यम्' ? इति, उचितकरणीयम्, यदुचितं करणीयमवश्यकर्त्तव्यं तद्विधेयमिति शेषः // 43 // तदनन्तरम् - अविरुद्धो ववहारो, काले तह भोयणं च संवरणं / चेइहरागमसवणं, सक्कारो वंदणाई य // 44 // 1/44 अविरुद्धो लोकधर्माविरुद्धः, व्यवहारः क्रियारूपो काले देश-काले, तथा भोजनं च विधेयम्, संवरणं प्रत्याख्यानम्, शरीरस्थित्यविरोधेन, चैत्यगृहागमः शेषव्यापाराभावे चैत्यगृह एवागमनम्, श्रवणं पुनरप्यागमविषयम्, सत्कारश्चैत्यानामुचितवेलायां वन्दनादि च कर्त्तव्यम्, आदिशब्दात् कुशलप्रणिधान-प्रणामपरिग्रहः // 44 // जइविस्सामणमुचिओ, जोगो नवकारचिंतणाईओ। गिहगमणं विहिसुवणं, सरणं गुरुदेवयाईणं // 45 // 1/45 यतीनां साधूनां विश्रामणं परिश्रान्तानां विश्रान्तिसंपादनं विधेयम्, उचितो योगः समुचितो धर्मव्यापारो, नमस्कारचिन्तनादिकः, आदिशब्दात् स्वाध्याय-ध्यानपरिग्रहः स च कर्त्तव्यः, पुनरपि चैत्यगृहात् 'स्वगृहगमनं कर्त्तव्यम्, विधिस्वप्नं पञ्चनमस्कारपाठः सर्वजीवक्षान्तिपुरःसरः, स्मरणं मनसिकरणं गुरुदेवतादीनां धर्मगुरुवीतरागादीनाम्, विशेषतः स्वापकाले, आदिशब्दात् सम्यग्दृष्टिभद्रिकचतुर्निकायगतदेवपरिग्रहः // 45 // अब्बंभे पुण विरई, मोहदुगंछा सतत्तचिन्ता य / इत्थीकडेवराणं, तव्विरएसुं च बहुमाणो // 46 // 1/46 १.गिहगमणं-स्वगृहगमनमेतच्च स्वयोगसिद्धत्वेनापार्थकत्वान्निजपरिवारस्य धर्मदेशनाकरणमिति ज्ञापयति (श्राद्धदिनकृत्य गाथा 3 देवेन्द्रसूरिवृत्तिः)