SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गाथा-३९-४२ १-श्रावकधर्मविधि-पञ्चाशकम् एवं यतमानस्य, असन्नप्ययं प्राग्देशविरतिपरिणामो जायते प्रादुर्भवति, जातश्च न पतति कदाचिन्नैव प्रतिपतति / तत्तस्माद् अत्र नित्यस्मृत्यादौ, तदुपाये बुद्धिमता प्रेक्षावता अप्रमादो यत्नातिशयो भवति कर्त्तव्यः करणीय इति // 38 / / अणुव्रतादीनामेव यावज्जीवेत्वरविभागप्रतिपादनायाह - एत्थ उ सावगधम्मे, पायमणुव्वयगुणव्वयाइं च / आवकहियाइं सिक्खावयाइं पुण इत्तराई ति // 39 // 1/39 अत्र तु प्रस्तुते श्रावकधर्मे प्रागुक्ते प्रायो बाहुल्येन अणुव्रतानि गुणव्रतानि च यावत्कथिकानि यावज्जीवकानि। प्रायोग्रहणान्न नियमेन यावज्जीवम्, चातुर्मास्याद्यभिग्रहविशेषप्रतिपत्तेः / शिक्षाव्रतानि पुनरित्वराणीति इत्वरकालान्येव प्रतिदिनकरणीयत्वात् सामायिकादीनाम् // 39 // श्रावकधर्मपर्यन्तवर्तिन्यपि संलेखना कस्मान्नोक्ता ? इत्याह - संलेहणा य अंते, न निओगा जेण पव्वयइ कोइ। तम्हा नो इह भणिया, विहिसेसमिमस्स वोच्छामि // 40 // 1/40 संलेखना चान्ते न नियोगात्, न नियोगेन, येन प्रव्रजति कश्चित् श्रावकः सर्वविरतिं गृह्णाति / तस्मान्नो नैव, इहाधिकारे भणिता उक्ता, विधिशेषं कर्त्तव्यशेषं व्रतपालनोपायरूपम्, अस्य श्रावकस्य वक्ष्याम्यभिधास्ये // 40 // निवसेज्ज तत्थ सड्ढो, साहूणं जत्थ होइ संपाओ / चेइयघराइं जम्मि उ, तदण्णसाहम्मिया चेव // 41 // 1/41 निवसेदावसेत्, तत्र क्षेत्रे, श्रद्धा अस्यास्तीति श्राद्धः श्रावकः / साधूनां यतीनां यत्र भवति सम्पातः समागमः चैत्यगृहाणि च शान्ताऽयतनानि च यस्मिंस्तदन्यसाधर्मिकाश्चैवापरसमानधार्मिकाश्चैव यत्र सन्ति // 41 // अधुनाऽस्यैव रात्रिंदिवानुष्ठाने च वक्तुमाह [गाथाष्टकेन] - नवकारेण विबोहो, अणुसरणं सावओ वयाइं मे / जोगो चिइवंदणमो, पच्चक्खाणं च विहिपुव्वं // 42 // 1/42 शरीरस्थितिहेतुस्वापानन्तरं नमस्कारेण पञ्चमङ्गललक्षणेन, विबोधः प्रबोध अनुस्मरणममुकशिष्योऽहममुककुलश्च, श्रावको, व्रतानि मे सन्ति सर्वगृहीतानि, तेषां न काचित् क्षति
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy