________________ गाथा-३३-३४ १-श्रावकधर्मविधि-पञ्चाशकम् किमहं न ददामीत्येवंरूपम् // 32 // उक्तं सातिचारं चतुर्थशिक्षाव्रतम्, अधुना सर्वव्रतेषु परिशुद्धष्वतिचारा एव न सम्भवन्तीत्याह - एत्थं पुण अइयारा, नो परिसुद्धेसु होंति सव्वेसु / अक्खंडविरतिभावा, वज्जइ सव्वत्थऽओ भणियं // 33 // 1/33 अत्र प्रक्रमे पुनरतिचाराः प्रागुक्ता नो नैव, परिशुद्धेषु भावशुद्धियुक्तेषु भवन्ति, सर्वेष्वेव व्रतेषु, अखण्डविरतिभावात् सम्पूर्णदेशविरतिसद्भावात् / वर्जयतीति सर्वत्र सर्वेष्वेव व्रतेष्वतो भणितं प्राक् // 33 // एवं तावद् व्रतस्वरूपं सकलमभिधाय, तद्गतविज्ञेयोपायादि प्रतिपादयिष्यन्नाह - सुत्ताउवायरक्खणगहणपयत्तविसया मुणेयव्वा / कुंभारचक्कभामगडंडाहरणेण धीरेहिं // 34 // 1/34 सूत्रादागमाद्, ज्ञेयानुष्ठानविषयात्, गमेन हि ज्ञाता अर्थाः अनुष्ठीयमानाः पुरुषस्य क्रियाविषया भवन्तीति चागमादेव ज्ञानक्रियारूपेण प्रवर्त्तन्ते / अतस्तेषां प्रवर्तकं सूत्रम् / ते चात्रोपायरक्षणग्रहणप्रयत्नविषया मुणितव्या विज्ञेयाः / अत्र च यथाप्राधान्येन यदुपन्यासो लाभस्तु पश्चानुपूर्व्या / पूर्वं तावद्विषयो अणुव्रतादीनां विज्ञेयः / क्व विषये, किमणुव्रतं व्यवस्थितमिति / यतोऽन्यत्र भावो विषयार्थो, विषये परिज्ञाते सत्यागमाविरुद्ध मनो-वाक्-चेष्टापरिहारेण ग्रहणयोग्यतासम्पादनाय प्रयत्नम्, प्रयत्नेऽणुव्रतग्रहणात्प्राक्कालभावी जीवगुणविशेषः, ततः प्रयत्नात् सम्पन्नयोग्यत्वस्य विवक्षिताणुव्रतग्रहणम्, तत्करणाभ्युपगमरूपमणुव्रतप्रतिपत्तिरित्यर्थः / ततः प्रतिज्ञाताणुव्रतक्रियस्य तदविरुद्धमार्गसेवनेन रक्षणमनुपालनं प्रतिदिवसाचरितशिष्टक्रियारूपं नमस्कारबोधादि / उपायस्तु रक्षणोत्तरकालभावी, लाभोचितदान-भोग-निधि-नैपुण्यादिविशेषगर्भस्तेषामेवाणुव्रतानां सातत्यपरिपालनहेतुरिह परलोकाविरुद्धः सकलशास्त्रसम्मतो नीतिविशेषः / त एते कथं विज्ञेया इत्याह-कुम्भकारचक्रभ्रामकदण्डोदाहरणेन / यथा कुम्भकारचक्रावयवाःप्रतिक्षणविवर्तिनोऽपरापरदेशस्थाद् भ्रमणहेतुदण्डाद् वेगाख्यसंस्कारात्, अतो निवर्तनक्षमात् प्रवर्तमाना उपलभ्यन्ते, सर्वैरपि लौकिकपरीक्षकैरविप्रतिपत्त्या / तथैतेऽप्युपायादयः सूत्रात्प्रवर्तन्ते। एवमनेनोदाहरणेन धीरैः विद्वद्भिर्विज्ञेयाः / व्रतपरिणामपालनकाङ्क्षिभिः सर्वथा सूत्र एव यत्नो विधेय इत्यावेदितं भवति // 34 //