SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 12 १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-३०-३२ आहार-देह-सत्कार-ब्रह्माऽव्यापारपौषधः आहारश्च देहसत्कारश्च ब्रह्म च अव्यापारश्च, तेषु पौषधः / पोषं धर्मपुष्टिं धत्त इति व्रतविशेष एव यः पर्वस्वनुष्ठीयते / अन्यद् तृतीयं शिक्षापदम्, देशे सर्वस्मिश्चेदं वर्तते, देशपोषधरूपं सर्वपोषधरूपं चेत्यर्थः / चरमे उपन्यासक्रमप्रामाण्याद-व्यापारपोषधे, सामायिकं नियमाद् [कर्त्तव्यं अटी.] भवति / अन्यथा सामायिकलभ्यगुणाभावः / / 29|| अस्यैवातिचारानाह - अप्पडिदुप्पडिलेहियऽपमज्जसेज्जाइ वज्जई एत्थ / सम्मं च अणणुपालणमाहाराईसु सव्वेसु // 30 // 1/30 अप्रत्युपेक्षित-दुष्प्रत्युपेक्षिता-ऽप्रमार्जितशय्यादि वर्जयत्यत्र पोषधे। अप्रत्युपेक्षितशय्यासंस्तारकं दुष्प्रत्युपेक्षितशय्यासंस्तारकमप्रमार्जितशय्या संस्तारकं दुष्प्रमार्जितशय्या संस्तारकं सम्यक् भावसारं च अननुपालनमसंरक्षणम्, आहारादिषु सर्वेषु पौषधेषु // 30 // उक्तं सातिचारं तृतीयं शिक्षापदम्, अधुना चतुर्थमाह - अण्णाईणं सुद्धाण, कप्पणिज्जाण देसकालजुयं / दाणं जईणमुचियं, गिहीण सिक्खावयं भणियं // 31 // 1/31 अन्नादीनामन्नपानप्रभृतीनां शुद्धानां न्यायागतानां कल्पनीयानां यतियोग्यानां देशकालयुतं देशकालोपपन्नं दानं सम्प्रदानं यतीनामुचितं भर्त्तव्यानुरोधेन गृहिणां शिक्षापदं भणितम्, चतुर्थमतिथिसंविभागाख्यं पोषधोत्तरकालभावि, यतस्तत्र नियमभावीदं [यद्] दत्त्वा [तदैव] भुङ्क्ते, नान्यथा, अन्यदा त्वनियमो, दत्त्वा वा भुङ्क्ते भुङ्क्त्वा वा ददाति, परिजनं व्यापारयतीति // 31 // अस्यैवातिचारानाह - सच्चित्तनिक्खिवणयं वज्जइ सच्चित्तपिहणयं चेव / कालाइक्कम परववएसं मच्छरिययं चेव // 32 // 1/32 सचित्तनिक्षेपणं देयद्रव्यस्य प्रमादतः सचित्तपृथिव्यादिनिक्षेपं वर्जयति परिहरति / सचित्तपिधानं चैव सचित्तेन मातुलिङ्गादिना फलेन पिधानं स्थगनमनावृतद्वारस्य सर्पिष्पात्रादेः / कालातिक्रममतिक्रान्तकालप्रदानरूपं साधुपारणोत्तरकालभाविनम् / परव्यपदेशमभ्यर्हितवस्तुविषयपरकीयभणनम्, वस्तुवृत्त्या परकीय एव साधोस्तत्राऽदित्सायामपृष्ट एव तथा प्रतिपादनमतिचाररूपम् / मात्सर्यं चैवान्यदातृविषयम्, यद्यसौ मत्तः सकाशानिर्विभवादिरपि ददाति,
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy