________________ गाथा-१९-२२ १-श्रावकधर्मविधि-पञ्चाशकम उक्तान्यणुव्रतानि, गुणव्रतानां प्रथमं दिग्व्रतमाह - उडाहो तिरियदिसिं, चाउम्मासाइकालमाणेणं / गमणपरिमाणकरणं, गुणव्वयं होइ विण्णेयं // 19 // 1/19 ऊर्ध्वाधस्तिर्यग् दिशि सर्वासु दिक्ष्वित्यर्थः चातुर्मासादिकालमानेनाभिग्रहविशेषरूपेण, गमनपरिमाणकरणं गमनपरिच्छेदव्यवस्थापनम्, गुणव्रतं भवति विज्ञेयं दिग्व्रतमित्यर्थः // 19 // अस्यैवातिचारान् वर्जनीयत्वेनाह - वज्जइ उड्डाइक्कममाणयणप्पेसणोभयविसद्ध / तह चेव खेत्तवुढेि, कहंचि सइअंतरद्धं च // 20 // 1/20 वर्जयत्यूर्खादिक्रममूर्ध्वाधस्तिर्यग् व्यतिक्रममित्यर्थः / अनेनैवातिचारत्रयं सङ्ग्रहीतम्, नयनं ग्रामान्तरादेः [स्थितस्य वस्तुनः अटी.] प्रेषणं तेष्वेव उभयमेकदा तेष्वेव, तैविशुद्धमभिगृहीतक्षेत्रादेः परस्तादानयनादिवर्जनेन / तथा चैव क्षेत्रवृद्धिम् अन्यस्यां दिश्येकयोजनादिप्रक्षेपरूपम्, कथञ्चित् प्रमादाद् स्मृत्यन्तर्धानं स्मृतेरन्तर्धानं व्यवधानं विस्मृतिः [चशब्दः समुच्चयेअटी.] // 20 // उक्तं प्रथमं गुणव्रतम्, द्वितीयमाह - वज्जणमणंतगुंबरिअच्चंगाणं च भोगओ माणं / कम्मयओ खरकम्माइयाण अवरं इमं भणियं // 21 // 1/21 वर्जनमनन्तकोदुम्बरिकाऽत्यङ्गानामनन्तकायस्य पञ्चफलोपलक्षणोदुम्बरिकायाः अतिशयवन्ति भोगोपभोगानि तेषाम् / चशब्दो भिन्नक्रमः, भोगतो मानं च, भोगपरिमाणं चेहात्र द्रष्टव्यः, भोजनमाश्रित्योक्तं भोगपरिमाणम्, कर्मतः कर्माश्रित्य खरकर्मादिकानाम' (चु)ल्लिकप्रभृतीनामन्येषां च लोहकारादीनां कर्मणां वर्जनम् अवरमिदं भणितं द्वितीयगुणव्रतमित्यर्थः // 21 // (1. निस्त्रिंशजनोचितकठोरारम्भाणां कोटवालगुप्तिपालकर्मादीनाम्, अटी.) अस्यैव भोगकर्मविषयस्यातिचारवर्जनमाह - सच्चित्तं पडिबद्धं, अपउल दुप्पउल तुच्छभक्खणयं / वज्जइ कम्मयओ वि हु, एत्थं इंगालकम्माइं // 22 // 1/22 सचित्तमागमप्रसिद्धं फलादिप्रतिबद्धम् / सचित्ताऽस्थिकं प्रतिबद्धं परिपक्वम्, अपक्वम् धान्यं चणकादि 'दुपउलं' [दुष्पक्वम्] तदेवाऽर्धपक्वम्, तुच्छौषध्यो निस्सारास्तेषांमपक्वादीनां भक्षणं