________________ १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-१८ इच्छापरिमाणं परिगृह्यमानेच्छा, इयत्ताऽवधारणम्, खलुशब्दो वाक्यालङ्कारे, असन्तः अशोभना अनुचिता, आरम्भाः कर्तव्यविशेषा भूतोपघातिनः, तेभ्यो विनिवृत्तिसञ्जनकं वित्तादविरोहओ त्ति-विरतिकारणम् / क्षेत्रादिवस्तुविषयं परिगृह्यमाणक्षेत्रादिवस्तुगोचरम्, वित्तविद्या-पात्रताद्यविरोधेन, ('चित्तादविरोहओ'त्ति चित्तं-मन आदिर्येषां वित्तदेशवंशादीनां ते तथा / अटी.) चित्रं नानाप्रकारम् / / 17 / / (1. चित्तादविरोहओ - अटी.) इच्छापरिमाणस्यैव प्रतिषेधमुखेनातिचारानाह - खित्ताइहिरण्णाई, धणाइदुपयाइकुप्पमाणकमे / जोयणपयाणबंधणकारणभावेहि नो कुणइ // 18 // 1/18 क्षेत्रं सेतुः केतुः उभयं च त्रिधा, आदिशब्दाद् वास्तुग्रहः, तदपि खातम् (1) उच्छ्रितं (2) खातोच्छितं (3) च त्रिधा / हिरण्यं रूप्यं घटितमघटितं वा / आदिशब्दाद् सुवर्णग्रहः / धनं खण्डगुडादि, तुलासम्मितम् आदिशब्दाद्धान्यपरिग्रहो, द्विपदं मनुष्य-हंस-मयूर-रथ्यादिः आदिशब्दाच्चतुष्पदपरिग्रहः कुप्यं उपस्करो, मृण्मय-ताम्र-लोहोपस्करादि, एतेषां द्वन्द्वः / क्षेत्रादिहिरण्यादि-धनादि-द्विपदादि-कुप्यानि तेषां मानं प्रमाणम्, तस्य क्रमान्क्रमणान्युल्लङ्घनानि, अतिक्रमा इति यावत तान् करोतीति सम्बन्धः / कैः प्रकारैरित्याह-योजन-प्रदान-बन्धनकारण-भावैः [५]-तत्र (1) योजनं संयोजनम्, इच्छापरिमाणसमयाभिगृहीतक्षेत्रवस्तुनामधिकतरक्षेत्रपरिधिसंवर्धनेन, वृति-प्राकारकरणेन, क्षेत्रवास्तुपरिमाणमतिक्रामति / (2) प्रदानमधिकहिरण्यसुवर्णयोः, कुतश्चिन्नृपत्यादेः सम्पन्नयोः, स्वीकृत्येच्छापरिमाणभङ्गभयादभिगृहीतकालावधिं प्रतीक्षमाणोऽन्यस्मै ददाति, तेन प्रदानेनातिक्रामति / (3) बन्धनं संयमनं लाञ्छितं मुद्रितकरणम् / धन-धान्ययोरिच्छापरिमाणविषयीकृतयोरधिकतरं परिवारार्थं लभ्यद्रव्यसम्पत्तिहेतोः परकीयस्यान्याप्रदेयत्वेन व्याषेधपूर्वकमवस्थापनम् / तेनातिक्रामतीच्छापरिमाणम्, वस्तुतस्तयोरपि स्वीकृतत्वात् तत्सामोपपत्तेः (4) कारणं कर्तुः प्रयोजक: व्यापारः। स च गोकुलादिषु खण्डादिप्रक्षेपादिः, तं हि कारयन्नभिगृहीतकालावधेः परस्ताच्चतुःपदादेराधिक्यं भविष्यतीति मन्यमानः कारयति, तेन तथाविधकारणेनातिकामति लभ्यद्रव्यकारणत्वेन वा परहस्तात् साक्षाच्चतुष्पदादि व्रतभङ्गभयाच्च गृह्णन् द्रव्यनिमित्तं 'ममेदं भविष्यती'ति मन्यमानः परहस्ते व्यवस्थापयति तेनातिकामति / (5) भावेन तदतव्यवसायरूपेण, मण्मय-लोहोपस्करादि कप्यं प्रमाणातिरिक्तमिदानीमग्राह्यं शोभनत्वेन, कालावधेः परस्ताद् ग्रहीतुकामः पराऽप्रदेयत्वेन व्यवस्थापयति, ‘मा दूरेऽकार्षीस्त्वमिदमिति, अतिक्रामतीच्छापरिमाणम् / एभिः प्रकारैर्न करोति क्रमात् // 18 //