________________ गाथा-१४-१७ १-श्रावकधर्मविधि-पञ्चाशकम् तृतीयाणुव्रतातिचारपरिवर्जनायाह - वज्जइ इह तेनाहड, तक्करजोगं विरुद्धरज्जं च / कूडतुलकूडमाणं, तप्पडिरूवं च ववहारं // 14 // 1/14 वर्जयतीह तृतीयव्रते, स्तेनाहृतं चौराहृतं, कुङ्कमादिद्रव्यजातं देशान्तरादानीतम् / प्रच्छन्नं दीयमानं लोकव्यवहारपतितं गृह्णात्यपि तस्करः तदेव चौर्यकर्माऽविरतं कुर्वन्ति, नान्यत्कृष्यादिकमिति [तत्+कृ] 'तद्ग्रहणतोः कर-पत्योश्चौर-देवतयोः' इति निपातनात् तेषामिति / योगः प्रयोगो व्यापारणमानयत यूयम्, अहं ग्रहीष्यामि इति तम् / विरुद्धराज्यं च विरुद्धराज्यातिक्रमं च / कूटतुला-कूटमानमसत्योत्कीर्णकण्टकतुला, असत्यधान्य-रसमानं, तत्प्रतिरूपं च सत्यसदृशं च व्यवहारः घृत-तिल-शाल्यादिषु वसा-महिषीप्रस्रवणपलञ्जादिप्रक्षेपरूपम् // 14 // उक्तं सातिचारं तृतीयाणुव्रतम् / अधुना चतुर्थमाह - परदारस्स य विरई, ओरालविउविभेदओ दुविहं / एयमिह मुणेयव्वं, सदारसंतोस मो एत्थ // 15 // 1/15 परदारस्य च विरतिव्रतमौदारिक-वैक्रियभेदतो द्विविधमेतत् परदारमिह मन्तव्यम् / स्वदारसन्तोषश्चात्र व्रतम् / कश्चित्परदारवर्जनं विधत्ते, कश्चित् स्वदारसन्तोषम् // 1/15 / / तयोरतिचारानाह - वज्जड़ इत्तरिअपरिग्गहियागमणं अणंगकीडं च / परवीवाहक्करणं, कामे तिव्वाभिलासं च // 16 // 1/16 वर्जयति, इत्वरी गत्वरी, न सदावस्थायिनी, इत्वरं च कियन्तमपि कालं भाटीप्रदानेन सङ्ग्रहीता इत्वरिका, अपरिगृहीता वेश्याकुलाङ्गना वाऽनाथा / इत्वरिका चापरिगृहीता च, तयोर्गमनमासेवनम् [इत्वर्थपरिगृहीतागमनम्] / अनङ्गक्रीडां च कामशास्त्रोपदेशेन, तथा विक्षेपकरणैः / परविवाहकरणम्, कन्याफललिप्सया / कामे कामविषयम्, तीव्राभिलाषं च रात्रिंदिवं तदध्यवसायरूपम् // 16 / / उक्तं सातिचारं चतुर्थाणुव्रतम्, अधुना पञ्चममाह - इच्छापरिमाणं खलु, असदारंभविणिवित्तिसंजणगं / खेत्ताइवत्थुविसयं, 'वित्तादविरोहओ चित्तं // 17 // 1/17