________________ १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-११-१३ महिष्यजाकिकादिग्रहः / न करोति न विधत्ते, क्रियापदं सर्वत्र योजनीयम् / क्रियायामनुवर्तमानायामपि न करोतीति तात्पर्यम् // 10 // (1. वहबंधं - अटी बंधवहं-जे।) उक्तं सातिचारं प्रथमाणुवतम्, द्वितीयमाह - थूलमुसावायस्स य, विरई सो पंचहा समासेणं / कण्णागोभोमालिय, नासहरण कूडसक्खिज्जे // 11 // 1/11 स्थूलमृषावादस्य चागमप्रसिद्धस्य विरतिः / स मृषावादः पञ्चविधः समासेन सङ्ग्रहेण, स च द्विपद-चतुष्पदा-ऽपदविषय इति मन्यमानस्तदुपलक्षणाय वक्ति / कन्यालीकरूपो गवालीक-रूपो भूम्यलीकरूपश्च / कन्याग्रहणं सर्वकुमारादिद्विपदविशेषोपलक्षणम्, गोग्रहणं सर्वचतुष्पदभेदोपलक्षणम्, भूमिग्रहणं पृथिव्यप्तेजोवायुवनस्पतिजात्युपलक्षणम्, न्यासहरणालीकरूपोऽदत्तादानविषयं विहाय वाग्विषयः / कूटसाक्ष्यमनृतसाक्ष्यम् लोकप्रसिद्धमेव। एष पञ्चविधो मृषावाद इति // 11 / / (1. अत्र जातिपदं स्वरूपबोधकम् / ) अस्यैवाणुव्रतस्य वर्जनीयत्वेनातिचारानाह - इह सहसाऽब्भक्खाणं रहसा य सदारमन्तभेयं च / / मोसोवएसयं कूडलेहकरणं च वज्जेइ // 12 // 1/12 [इह-स्थूलमृषावादविरतौ-अटी.] सहसाऽसमीक्ष्य, अभ्याख्यानमनृतदोषोद्भावनम्, चौरस्त्वमित्यादिकम् / रहसा च रहस्येनार्थेनाभ्याख्यानम् ‘इदमनेन प्रच्छन्नं संवृत्तम्' [इत्यादिकम्] / स्वदारमन्त्रभेदं च स्वकलत्रविश्रब्धभाषितान्यकथनं च / मृषोपदेशनं विवादे त्वयेदं वक्तव्यम् / कूटलेखकरणं च कूटलेखितकरणं च भ्रान्तिजनकं वर्जयेत् परिहरेत् // 12 // उक्तं सातिचारं द्वितीयम् / अधुना तृतीयाणुव्रतं विषयभेदेन निरूपयन्नाह - थूलादत्तादाणे, विरई तं दुविह मो विनिद्दिटुं / सच्चित्ताचित्तेसुं, लवणहिरण्णाइवत्थुगयं // 13 // 1/13 स्थूलाऽदत्ताऽऽदाने [स्थूलाऽदत्ताऽऽदानम्-अटी.] समयप्रसिद्ध विरतिः, तृतीयमदत्तादानम्, तद् द्विविधम् / मो इति निपातः पूरणार्थः / विनिर्दिष्टं कथितम् / सचित्ताचित्तयोविषयकृतयोः निदर्शनेनोपदर्शयति-लवणहिरण्यादिवस्तुगतम् / लवणं सचित्तम्, हिरण्यमचित्तम्, आदिशब्दात् सचित्तेतरसकलविशेषपरिग्रहः // 13 // (1. उ निद्दिटुं-पा. / 2. लवणपदमत्र सचित्तमात्रग्राहकम्।)