SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 10 १-श्रावकधर्मविधि-पञ्चाशकम् गाथा-२३-२६ वर्जयति, भोजन [माश्रित्यक्तमि]ति, कर्मतोऽपि / 'हुः' शब्दः पूरणे / अणुव्रतेऽङ्गारकर्मादि पञ्चदशभेद-बहुसावद्यकर्मोपलक्षणत्वाच्चान्यदपि, उक्तं द्वितीयगुणव्रतम् // 22 // (1. य अटी.) अधुना तृतीयमाह - तहऽणत्थदंडविरई, अण्णं स चउव्विहो अवज्झाणे / पमयायरिए हिंसप्पयाण पावोवएसे य // 23 // 1/23 तथाऽनर्थदण्डविरतिः, अन्यत् तृतीयं गुणव्रतम्, सोऽनर्थदण्डश्चतुर्विधः - (1) अपध्यानरूपः क्लिष्टचिन्तनप्रायः (2) प्रमादाचरितः पञ्चविधप्रमादाऽऽसेविता, (3) हिंसाप्रदानरूपो हिंसनशीलानि हिंस्राण्युपकरणानि शस्त्रा-ऽग्नि-विषप्रभृतीनि प्राण्युपघातजननानि, तत्प्रदानम् / (4) पापोपदेशश्च पापविषय उपदेशः प्रोत्साहनं क्षेत्राणि कृष्यताम्, गावो दम्यताम्' इत्यादिरूपः // 23 // अस्यैव तृतीयगुणव्रतस्य प्रतिषेध्यत्वेनातिचारानाह - कंदप्पं कुक्कुइयं, मोहरियं संजुयाहिगरणं च / उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ // 24 // 1/24 कन्दर्पः कामः, तद्धेतुचेष्टाविशेषोऽपि कन्दर्पो हास्यादिस्तम् / कुकुचभावः कोक्रुच्यमनार्यचेष्टारूपं घतनादीनामिव / मुखरभावो मौखर्यमसंबद्धप्रलापितम् / संयुताधिकरणं चेह खलमुसलादिविषयम् / उपभोगपरिभोगयोरतिरेकं वाऽधिक्यं चाधिकरणप्रवर्तकम् / निरर्थकमेवात्र तृतीयगुणव्रते वर्जयेत्॥२४॥ उक्तं गुणव्रतत्रयम् / साम्प्रतं शिक्षापदेषु सामायिकमधिकृत्याह - सिक्खावयं तु एत्थं, सामाइय मो तयं तु विण्णेयं / सावज्जेयरजोगाण, वज्जणासेवणारूवं // 25 // 1/25 शिक्षाव्रतं त्वत्राभिधीयते / सामायिकं मो इति निपातः, तकद् विज्ञेयम् / तच्च विधिप्रतिषेधस्वरूपमित्याह / सावद्येतरयोगानां सपापेतरव्यापाराणाम्, वर्जनासेवनारूपं परिहार-प्रवृत्तिरूपम् // 25 // अस्यैवातिचारान् परिहार्यत्वेनाह - मणवयणकायदुप्पणिहाणं इह जत्तओ विवज्जेइ / / सइअकरणयं अणवट्ठियस्स तह करणयं चेव // 26 // 1/26
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy