SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-६ 288 भ्रातस्त्वं भावितः किल // 23 // जैनवाचा न चाहं भोस्तदत्र किमु कारणम् / एकचित्ततया ख्यातावावां लोक इयञ्चिरम् // 24 // इदानीमत्र सञ्जातं विभिन्नं चित्तमावयोः / तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः // 25 // सत्यमेवं ममाप्यत्र विकल्पः संप्रवर्तते / केवलं केवली नूनं निश्चयं नः करिष्यति // 26 // स एव प्रश्रितोऽत्रार्थे तद्यातास्वस्दन्तिके / एवं तौ निश्चयं कृत्वा प्रातर्यातौ तदन्तिकम् / / 27 / पप्रच्छतुस्तमाराध्यं विनयेन स्वसंशयम् / सोऽप्युवाच पुरैकेन साधवो वां प्रशंसिताः // 28 // न चान्येन तदेकस्य जातं बीजस्य सत्फलम् / सद्बोधरूपमन्यस्याबीजत्वेन न चाभवत् / / 29 // एवं पूर्वभवासेवां जिनेनोक्तां सविस्तराम् / निशम्यैकस्य संजातं जाते: संस्मरणं क्षणात् // 30 // ततोऽसौ प्रत्यये जाते जातः संवेगभावितः / भावतश्च जिनोद्दिष्टं प्रपेदे शासनं शुभम् // 31 // तत्प्रतिपत्तिसामर्थ्यात् शुभकर्मानुबन्धतः / सिद्धिं यास्यत्यसौ काले परः संसारमेव हि // 32 // ततः स्थापितमेतेन भावो जैनमताश्रयः / स्वल्पोऽपि जायते बीजं निर्वाणसुखसंपदाम् // 33 // इति गाथार्थः / / 7/8 // (4) अप्रीतिपरिहारे श्रीवीरज्ञातम् भावार्थः कथानकगम्यः / तच्चेदम्-जिनः श्रीमान्महावीरो वीरितान्तरशात्रवः / प्राज्यं राज्यं परित्यज्य प्रव्रज्यां प्रतिपद्य च // 1 // निःसंगोऽतिमहासत्त्वः सत्त्वानां रक्षणोद्यतः / ग्रामादिसंकुलां पृथ्वीं छद्मस्थो विहरन्नसौ // 2 // मथूराकाभिधं ग्रामं संप्राप्तस्तत्र चाश्रमः / दूयमानाभिधानानां पाखण्डिगृहिणामभूत् // 3 // तेषां कुलपतिर्मित्रमासीद्भगवतः पितुः / महावीरमसौ दृष्ट्वा संभ्रमेण समुत्थितः // 4 // स्नेहादालिङ्गनार्थाय श्रीजिनस्य ततो जिनः / बाहुं प्रसारयामास तं प्रति प्राक् प्रयोगतः // 5 // सोऽवोचत् सन्ति वेश्मानि योग्यान्यत्राश्रमे तव / ततः कुमार ! तिष्ठ त्वमत्राथ जिननायकः // 6 // एकां तत्र स्थितो रात्रिमन्यत्र गतवांस्ततः / गच्छन्तं च जिनं स्नेहादवोचत् तापसाधिपः // 7 // यद्यत्र रोचते तुभ्यं तदागत्य विधीयताम् / वर्षावासो जनस्यास्यानुग्रहार्थं त्वया मुनेः !|8|| मासानष्टौ विहृत्याथ तं ग्राममागमज्जिनः / उपागतासु वर्षासु मठं चैकमुपाश्रितः // 9 // प्रारंभे प्रावृषस्तत्राप्राप्नुवन्ति नवं तृणम् / गोरूपाणि मठानां तत् प्रचखादुः पुरातनम् // 10 // तापसा वारयन्ति स्म तानि ते दण्डपाणयः / भट्टारकः पुनस्तानि निःसंगत्वादुपेक्षते // 11 / / ततस्ते तापसाः स्वस्य नायकस्य न्यवेदयन् / यथैष भवतामिष्टो गोभ्यो नावति नो मठम् // 12 // ततः कुलपतिर्गत्वा बभाण श्रीजिनं प्रति / कुमार ! भो न युक्तं ते मठस्योपेक्षणं यतः // 13 / / शकुन्तोऽपि निजं नीडं रक्षत्येव यथाबलम् / ततो गावो निवार्यास्ते नाशयन्त्यो मठं स्वकम् // 14 // इत्येवं शिक्षयामास सपिपासमसौ जिनम् / ततः स्वामी तदप्रीतिं ज्ञात्वा निर्गतवांस्ततः // 15 // प्रावृषोऽतिगते पक्षे अस्थिकग्राममाययौ / अप्रीतिपरिहाराय यतेतैवं यथा जिनः // 16 // इति गाथार्थः // 7/15 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy