SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ गाथा-४१-४३ १९-तपोविधि-पञ्चाशकम् 257 प्रतीतानां एषोऽयं रेसिमि त्ति' निमित्तं सुप्रशस्तोऽतिशुभः, तत्रैकमष्टमं दर्शनगुणशुद्धये एवमपरद्वयं ज्ञेयं / शेषद्वयपरिशुद्धये / इति गाथार्थः // 40 // ___ अथ सर्वाङ्गसुन्दरादितपस्सु सनिदान एव प्राणी प्रवर्तते, ततो न न्याय्यान्येतानीत्याशङ्कापरिहारार्थमनिदानतामेषु प्रवृत्तस्य दर्शयन्नाह - एएसु 'वट्टमाणो, भावपवित्तीऍ बीजभावाओ / सुद्धासयजोएणं, अनियाणो भवविरागाओ // 937 // 19/41 एए गाहा / एतेष्वनन्तरोक्ततपस्सु प्रवर्तमानो व्याप्रियमाणो जीवः एतेसु बहुमाणा इति पाठान्तरं व्यक्तं च / कया? भावप्रवृत्त्या बहुमानसारक्रियया अनिदान इति योगः / कुत इति ? आह-बीजभावात् बोधिबीजविकलस्य देहिनो बोधिबीजभवनेन / एतदेव कथमिति ? आहशुद्धाशययोगेन शुभाध्यवसायसम्बन्धेन, शुभाध्यवसायाद्धि बोधिबीजं स्यात् / अनिदानो निदानरहितः स्यात् / तथा भवविरागात् संसारनिर्वेदात्, यत् किल भवविरागादिनिमित्तं तन्निदानं न भवति बोध्यादिप्रार्थनमिव / भवविरागादिहेतवश्चोक्ततपांसि केषाञ्चिदतो निर्निदानानि / इति गाथार्थः // 41 / / (1. बहुमाणा - अटी. / ) निर्निदानत्वादेवैतेषां निर्वाणाङ्गतामाचार्यान्तरमतेनापि दर्शयन्नाह - विसयसरूवणुबंधेहिं तह य सुद्धं जओ अणुट्ठाणं / निव्वाणंगं भणियं, अण्णेहि वि जोगमग्गम्मि // 938 // 19/42 एयं च विसयसुद्धं, एगंतेणेव जं तओ जुत्तं / आरोग्गबोहिलाभादिपत्थणाचित्ततुल्लं ति // 939 // 19/43 जुम्मं / विसय गाहा / एयं च गाहा / विषयो गोचर उक्ततपसामालम्बनीयस्तीर्थकरनिर्गमादिः, स्वरूपमुक्ततपसामेव स्वभाव आहारत्यागब्रह्मचर्यजिनपूजासाधुदानादिलक्षणः, अनुबन्धश्च तत्परिणामाव्यवच्छेदतः प्रकर्षयायिताऽतस्तेषु विषयस्वरूपानुबन्धेषु / तथा चेति समुच्चये / शुद्धं निरवद्यं यतो यस्मात् कारणात् अनुष्ठानं क्रिया निर्वाणाझं मुक्तिकारणं भणितमुक्तम् अन्यैरपि तन्त्रान्तरीयैः, किं पुनर्जिनैः योगमार्गेऽध्यात्मशास्त्रपथे / अतो विषयादिशुद्धतयैतेषां निर्वाणाङ्गत्वान्निनिदानतेति हृदयमिति // 42 // ___ एतच्चैतत्पुनरनन्तरोक्तं तपः / विषयशुद्धं निर्दोषगोचरं सकलदोषमोषिजिन-पतिविषयत्वात् एकान्तेनैव सर्वथैव यद्यस्मात्ततस्तस्माद्धेतोः युक्तं सङ्गतं प्रार्थनागर्भमपीदं तपः / कुत इति ? आह-आरोग्यबोधिलाभादीनां “आरोग्गबोहिलाभं समाहिवरमुत्तमं दितु" इत्येवंरूपा या
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy