________________ 256 १९-तपोविधि-पञ्चाशकम् गाथा-३९-४० च त एव पुरिमार्धवर्जाः प्रतिकषायं विधीयन्तेऽसौ कषायमथनः / इह परिपाटीचतुष्केण षोडश तपोदिनानि स्युः / तथा यत्र निर्विकृतिकायामोपवासा एकैकयोगमाश्रित्य विधीयन्तेऽसौ योगशुद्धिः। इह च परिपाटीत्रयेण नव तपोदिनानि स्युरिति / अथोक्तशेषानतिदिशन्नाह-'एमादओ वि त्ति' एवमादयोऽप्यनन्तरोक्ततपःप्रकारा अपि तपोविशेषाः ज्ञेया ज्ञातव्याः / तथा तथा तेन तेन प्रकारेण यो यथा विधेयो यत्प्रमाणश्चेत्यर्थः / पण्डितजनादाचरणाविज्ञजनात् / तथाहि-यत्रोपवास एकाशनकमेकसित्थमेकस्थानकमेकदत्तिनिर्विकृतिकमायाममष्टकवलं च स्यात् तदष्टकर्मसूदनं तपस्तत्र चाष्टाभिः परिपाटीभिश्चतुःषष्टिस्तपोदिनानि स्युः / तथा भाद्रपदे सप्तभिरेकाशनकैस्तीर्थकरमातृपूजायुक्तं तीर्थकरमातृतपः स्यात् / तथा भाद्रपद एव षोडशभिरेकाशननिर्विकृतिकायामोपवासैर्यथाशक्तिकृतैः समवसरणपूजान्वितं समवसरणतपः / तत्र चतुर्षु भाद्रपदेषु चतुःषष्टिस्तपोदिनानि स्युः / तथाऽमावास्यायां पटलिखितनंदीश्वर-जिननिलयपूजान्वितमुपवासादीनामन्यतमन्नन्दीश्वरतपः / तथा चैत्रपूर्णमास्यां पुण्डरीकपूजायुतमुपवासाद्यन्यतरत्पुण्डरीकतपः / तथा जिनबिंबपुरतः स्थापितकलशः प्रतिदिनं प्रक्षिप्यमाणतंडुलमुष्ट्या यावद्भिर्दिनैः पूर्यते तावन्ति दिनान्येकाशनकादितपोऽक्षतनिधिः / तथैका प्रतिपत्, द्वे द्वितीये, तिस्रस्तृतीया, एवं यावत्पञ्चदश पञ्चदश्यः कृतोपवासा यत्र तपसि भवन्ति तत् सर्वसौख्यसंपत्तिरित्येवमन्यान्यपि तपांसि / इति गाथार्थः // 38 // अथैते तपोविशेषा आगमे नोपलभ्यन्त इत्याशङ्कां परिहरन्नाह - चित्तं चित्तपयजुयं, जिणिंदवयणं असेससत्तहियं / परिसुद्धमेत्थ किं तं, जं जीवाणं हियं नत्थि // 935 // 19/39 चित्तं गाहा / चित्रमद्भुतमनेकातिशयाभिधानत्वादङ्गानङ्गादिभेदत्वाद्वा चित्रमनेकविधं तथा चित्रपदयुतं नानाविधार्थप्रतिपादकाभिधानयुक्तं जिनेन्द्रवचनं जिनेश्वरागमः, अशेषसत्त्वहितं समस्तप्राण्यु-पकारकं भव्यानुसारेण मार्गप्रतिपत्त्युपायप्रतिपादनपरत्वात् परिशुद्धं कषच्छेदतापविशुद्धं सुवर्णमिव निर्दोषं एवं चात्रास्मिन् जिनवचने / किं तद्यज्जीवानां हितं नास्ति ? सर्वमपि जीवानां हितमस्तीत्यत इदं तपः परिदृश्यमानागमेऽनुपलभ्यमानमप्युपलब्धमिवावगन्तव्यं तथाविधजनहितत्वात् / इति गाथार्थः // 39 / / तथा - सव्वगुणपसाहण मो, णेओ तिहि अट्ठमेहि परिसुद्धो / दसणनाणचरित्ताण एस रेसिमि सुपसत्थो // 936 // 19/40 सव्व गाहा / सर्वगुणप्रसाधनः सकलगुणावह इति पर्याय: तपोविशेषः / 'मो' निपातः पूरणार्थः ज्ञेयोऽवसेयः त्रिभिरष्टमैरुपवासत्रयलक्षणैः परिशुद्धोऽनवद्यः दर्शनज्ञानचारित्राणां