________________ गाथा-३५-३८ १९-तपोविधि-पञ्चाशकम् 255 __एवं गाहा / एवमित्येकान्तरितद्वात्रिंशदायामरूपं आयतिजनक उक्तार्थः विज्ञेयः नवरं केवलमयं विशेष इत्यर्थः / एषोऽयं सर्वत्र सर्वधर्मकृत्येषु अनिगृहितबलवीर्यस्य भवति शुद्धो विशेषेणेति व्यक्तम् / नवरं केवलं बलं शारीरः प्राणः, वीर्यं चित्तोत्साहः / इति गाथार्थः / / 34|| चित्ते एगंतरओ, सव्वरसं पारणं च विहिपुव्वं / सोहग्गकप्परुक्खो, एस तवो होइ कायव्वो // 931 // 19/35 चित्ते गाहा / चैत्रे मासे एकान्तरक एकदिनव्यवहितः उपवास इति गम्यते / सर्वरसं सविकृतिकमित्यर्थः / पारणंच भोजनं विधिपूर्वं गुरुदानादिपूर्वकमित्यर्थः / सौभाग्यकल्पवृक्ष उक्तार्थः / एषोऽयं 'तवो त्ति' तपोविशेषो भवति कर्तव्य इति व्यक्तम् / इति गाथार्थः // 35 // इहैव विधिशेषमाह - दाणं च जहासत्तिं, एत्थ समत्तीऍ कप्परुक्खस्स / ठवणा य विविहफलभरसन्नामियचित्तडालस्स // 932 // 19/36 दाणं गाहा / दानं च साध्वादिभ्यो देयम्, यथाशक्त्यत्र तपसि, समाप्तौ वाऽस्य तपसः कल्पवृक्षस्य सुवर्णतन्दुलादिमयस्य, स्थापना च न्यासश्च / किंविधस्य ? विविधफलभरेण नानाविधफलभारेण, सन्नामितान्यवनतीकृतानि, चित्राणि विविधानि, डालानि शाखा यस्य स, तथा तस्येति गाथार्थः // 36 / / एते अवऊसणगा, इट्ठफलपसाहगा उ सट्ठाणे / अण्णत्थजुया य तहा, विण्णेया बुद्धिमंतेहिं // 933 // 19/37 एते गाहा। एतान्यवजोषणकानि तपोविशेषसेवाः इष्टफलसाधकानि तु स्वस्थाने स्वविषये अव्युत्पन्नविनेयलक्षणे अन्वर्थयुक्तानि च तथा अन्वर्थश्चैषां प्राग्दर्शित एव / विज्ञेयानि बुद्धिमद्भिः / इति गाथार्थः // 37 // तथा - इंदियविजओ वि तहा, कसायमहणो य जोगसुद्धी य / एमादओ वि णेया तहा तहा पंडियजणाओ // 934 // 19/38 इंदिय गाहा / इन्द्रियविजयोऽपि तपोविशेषः प्रतीतान्वर्थः / तथा कषायमथनश्च व्यक्तान्वर्थ एव / योगशुद्धिश्च मनोवाक्कायव्यापारानवद्यतासंपादकस्तपोविशेषो भवति / एतत्स्वरूपं चाचरणतोऽवसेयम् / तच्चेदम्-पुरिमाधैंकाशनकनिर्विकृतिकायामोपवासा यत्रैकैकमिन्द्रियमाश्रित्य पञ्चभिः परिपाटीभिर्विधीयन्तेऽसाविन्द्रियविजयः / तत्र पञ्चविंशतिस्तपोदिनानि भवन्ति / यत्र