________________ 254 १९-तपोविधि-पञ्चाशकम् गाथा-३०-३४ शिवपथाश्रयणकारणं यश्च तत्प्रतिपत्तिहेतुः स मार्ग एवोपचारात् / कथमिदमिति चेदुच्यतेहंदीत्युपप्रदर्शने। विनेयानुगुण्येन शिक्षणीयसत्त्वानुरूप्येण / भवन्ति हि केचित् ते विनेया ये साभिष्वङ्गानुष्ठानप्रवृत्ताः सन्तो निरभिष्वङ्गमनुष्ठानं लभन्ते / इति गाथाद्वयार्थः // 29 // अथ सर्वाङ्गसुन्दरादितपोविशेषान् विवृण्वन्नाह - अट्ठोवासा एगंतरेण विहिपारणं च आयामं / सव्वंगसुन्दरो सो होइ तवो सुक्क पक्खंमि // 926 // 19/30 खमयादभिग्गहो इह, सम्मं पूया य वीयरागाणं / दाणं च जहासत्तिं, जइदीणादीण विण्णेयं // 927 // 19/31 जुम्मं / अट्ठो गाहा / खम गाहा / अष्टावुपवासाः प्रसिद्धाः / कथं? एकेन पारणकदिनेनान्तरं व्यवधानमेकान्तरं तेन एकान्तरेण। विधिपारणं च प्रत्याख्यानस्पर्शनादिविधानयुक्तं भोजनं च / आयाममाचाम्लमागमसिद्धं यत्र तपोविशेषे / सर्वाङ्गसुन्दरोऽसौ भवति / 'तवो त्ति' तपोविशेषः / शुक्लपक्षे प्रतीते / इति // 30 // तथा - क्षाम्यतीति क्षमस्तद्भावः क्षमता क्षान्तिस्तदादौ क्षान्तिमार्दवार्जवा-दावभिग्रहो नियमः क्षमताद्यभिग्रहः इह तपसि विधेयो भवति / तथा सम्यग् भावतः पूजा चाभ्यर्चनं वीतरागाणां / दानं च यथाशक्ति यतिदीनादीनां विज्ञेयमिति व्यक्तम् / इति गाथाद्वयार्थः // 31 // तथा - एवं चिय निरुजसिहो, नवरं सो होइ किण्हपक्खम्मि / तह य गिलाण तिगिच्छाभिग्गहसारो मुणेयव्वो // 928 // 19/32 एवं गाहा। ‘एवं चिय' एवमेव सर्वाङ्गसुन्दरवदित्यर्थः / निरुजशिखस्तपोविशेषः / नवरं केवलं स भवति कृष्णपक्ष इति व्यक्तम् / तथा चेति विशेषान्तरसमुच्चयार्थः ग्लानचिकित्सा-ऽभिग्रहसारो ग्लानो मया पथ्यादिदानतः प्रतिचरणीय इत्येवंरूपप्रतिज्ञाप्रधानो ज्ञातव्यः / इति गाथार्थः // 32 // तथा - बत्तीसं आयामं, एगंतरपारणेण सुविसुद्धो / तह परमभूसणो खलु, भूसणदाणप्पहाणो य // 929 // 19/33 बत्तीसं गाहा। द्वात्रिंशदायामान्याचाम्लानि / एकान्तरपारणेन एकायामव्यवहितभोजनेन / सुविशुद्धानि निर्दोषाणि / तथेति समुच्चये। परमभूषणः खलु उक्तशब्दार्थः / भूषणदानप्रधानश्च जिनाय तिलकाद्याभरणदानसारः / इति गाथार्थः // 33 / / तथा - एवं आयइजणगो, विण्णेओ नवरमेस सव्वत्थ / अणिगूहियबलविरियस्स होइ सुद्धो विसेसेणं // 930 // 19/34