SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ गाथा-२७-२९ १९-तपोविधि-पञ्चाशकम् 253 जत्थ गाहा / यत्र तपसि कषायनिरोधो ब्रह्म जिनपूजनमिति व्यक्तम् अनशनं च भोजनत्यागः 'सो त्ति' तत् सर्वं भवति तपो विशेषतो मुग्धलोके, मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्तते, न पुनरादित एव तदर्थं प्रवर्तितुं शक्नोति, मुग्धत्वादेवेति / सद्बुद्धयस्तु मोक्षार्थमेव विहितमिदमिति बुद्ध्यैव वा तपस्यन्ति / यदाह- "मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः" [तत्त्वार्थसूत्रकारिका-१ श्लोक 5] इति / मोक्षार्थघटना चागमविधिनैव / आलम्बनान्तरस्यानाभोगहेतुत्वात् / इति गाथार्थः // 26 // न चेदं देवतोद्देशेन तपः सर्वथा निष्फलमैहिकफलमेव वा, चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाह - एवं पडिवत्तीए, एत्तो मग्गाणुसारिभावाओ / चरणं विहियं बहवे, पत्ता जीवा महाभागा // 923 // 19/27 एवं गाहा / एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादिहेतुना प्रतिपत्त्या तपोरूपोपचारेण तथा इत उक्तरूपात् कषायादिनिरोधप्रधानात् तपसः, पाठान्तरेण एवमुक्तकरणेन मार्गानुसारिभावात् सिद्धिपथानुकूलाध्यवसायात् चरणं चारित्रं विहितमाप्तोपदिष्टं बहवः प्रभूताः प्राप्ता अधिगताः जीवाः सत्वाः महाभागा महानुभावाः / इति गाथार्थः // 27 // (1. एवं. पु, जे. / ) तथा सव्वंगसुंदरो तह, निरुजसिहो परमभूसणो चेव / आयइजणगो सोहग्गकप्परुक्खो तहण्णोऽवि // 924 // 19/28 पढिओ तवोविसेसो अन्नेहिं वि तेहिं तेहिं सत्थेहिं / मग्गपडिवत्तिहेऊ हंदि विणेयाणुगुण्णेणं // 925 // 19/29 सव्वं गाहा / पढिओ गाहा / सर्वाङ्गानि सुन्दराणि यतस्तपोविशेषात् स सर्वाङ्गसुन्दरः / तथेति समच्चये रुजानां रोगाणामभावो निरुजं तदेव शिखेव शिखा प्रधानं फलतया यत्रासौ निरुजशिखः / तथा परमाण्यत्तमानि भषणान्याभरणानि यतोऽसौ परमभषणः।चैवेति समच्चये। तथा आयतौ आगामिकालेऽभीष्टफलं जनयति करोति योऽसौ आयतिजनकः / तथा सौभाग्यस्य सुभगतायाः संपादने कल्पवृक्ष इव यः स सौभाग्यकल्पवृक्षः / तथेति समुच्चये / अन्योऽपि अपरोऽपि उक्ततपोविशेषात् // 28 // किमिति? आह - पठितोऽधीतस्तपोविशेषस्तपोभेदः / अन्यैरपि ग्रन्थकारैः तेषुतेषुशास्त्रेषु नानाग्रन्थेष्वित्यर्थः / नन्वयं पठितोऽपि साभिष्वङ्गत्वान्न मुक्तिमार्ग इत्याशङ्क्याह-मार्गप्रतिपत्तिहेतुः
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy