________________ 252 १९-तपोविधि-पञ्चाशकम् गाथा-२३-२६ किञ्च - अन्नो वि अत्थि चित्तो, तहा तहा देवयानिओगेण / मुद्धजणाण हिओ खलु, रोहिणिमादि मुणेयव्वो // 919 // 19/23 अन्नो गाहा / अन्नो वित्ति अन्यदपि अस्ति विद्यते / चित्रं विचित्रं तप इति गम्यते / तथा तथा तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन देवतोद्देशेन मुग्धजनानामव्युत्पन्नबुद्धिलोकानां हितं खलु पथ्यमेव विषयाभ्यासरूपत्वात् रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि 'मुणेयव्वो त्ति' ज्ञातव्यम् / पुल्लिंगता च सर्वत्र प्राकृतत्वात् / इति गाथार्थः // 23 // देवता एव दर्शयन्नाह - 'सुयसंतिसुरा काली, 'सिद्धाइया तहा चेव // 920 // 19/24 रोहिणि गाहा / रोहिणी (1), अंबा (2) तथा मन्दपुण्यिका (3) / 'सव्वसंपयासोक्ख त्ति' सर्वसंपत् (4) सर्वसौख्या चेत्यर्थः (5) / 'सुयसंतिसुर त्ति' श्रुतदेवता (6) शान्तिदेवता (7) चेत्यर्थः, 'सुयदेवय-संति-सुरा' इति वा पाठान्तरं व्यक्तं च / काली, (8) सिद्धायिका (9) इत्येता नव देवताः, तथा चैवेति समुच्चयार्थः, 'संबाइया चेव त्ति' पाठान्तरं / इति गाथार्थः // 24 // (1. सुयदेवय-संति-सुरा. अटी. जे. / 2. संबाइया चेव अटी. / ) ततः किमित्याह - एमादिदेवयाओ, पडुच्च अवऊसगा उ जे चित्ता / नाणादेसपसिद्धा, ते सव्वे चेव होन्ति तवो // 921 // 19/25 एमा गाहा / एवमादिदेवताः प्रतीत्यैतदाराधनयेत्यर्थः / 'अवऊसग त्ति' अपवसनानि अवजोषणानि वा तुः पूरणे ये चित्रा नानादेशप्रसिद्धास्ते सर्वे चैव भवन्ति तपः इति स्फुटमिति / तत्र रोहिणीतपो रोहिणीनक्षत्रदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत् / तत्र च वासुपूज्यजिनप्रतिमायाःप्रतिष्ठा पूजा च विधेयेति / तथा अम्बातपः पञ्चसु पञ्चमीष्वेकाशनादि विधेयं नेमिनाथाम्बिकापूजा चेति / तथा श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति / शेषाणि तु रूढितोऽवसेयानीति गाथार्थः // 25 // / अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशङ्क्याह - जत्थ कसायनिरोहो, बंभं जिणपूयणं अणसणं च / सो सव्वो चेव तवो, विसेसओ मुद्धलोयम्मि // 922 // 19/26