________________ गाथा-२०-२२ १९-तपोविधि-पञ्चाशकम् 251 'पंचदसिपडिवयाहिं ति' पञ्चदश्यां पौर्णमास्यां प्रतिपदि च कृष्णपक्षप्रथमतिथौ / 'तो त्ति' ततोऽनन्तरं / 'हाणि त्ति' एकैकशोऽनुदिनं भिक्षादिहानि करोति / कृष्णप्रतिपक्षे कृष्णस्वरूपे शुक्लपक्षापेक्षया द्वितीयपक्ष इत्यर्थः / तत्र चामावास्यायामेका भिक्षा कवलो वा स्यादिति गाथार्थः // 19 // अथ वज्रमध्या, तामाह - किण्हे पडिवय-पन्नरस, इगेगहाणी उ जाव इक्को उ। अमवस्सपडिवयाहिं, वुड्डी पन्नरस पुन्नाए // 916 // 19/20 किन्हे गाहा / कृष्ण पक्षे प्रतिपदि प्रथमतिथौ पञ्चदशकवलादीन् गृह्णाति / तत 'इगेगहाणी उत्ति' एकैककवलादिहानिः प्रतिदिनं क्रियते / यावदेकस्तु एक एव कवलादिः / अमावास्याप्रतिपदोः प्रतीतयोः / ततो वृद्धिः कवलादीनामनुदिनं क्रियते यावत् पञ्चदश कवलादयः पूर्णायां पूर्णमास्यां भवन्ति / इति गाथार्थः // 20 // (1. एग, पु. / 2. एकक पु. / ) इह तपसि भिक्षादि ग्राह्यतयोक्तमतस्तल्लक्षणमाह - एत्तो भिक्खामाणं, एगा दत्ती विचित्तरूवा वि / कुक्कुडिअंडगमेत्तं, कवलस्स वि होइ विनेयं // 917 // 19/21 एत्तो गाहा। इतो विवक्षिततपःस्वरूपाभिधानानन्तरं भिक्षामानं वाच्यमिति शेषः / तच्चेदम्एकाऽसहाया दत्तिर्भक्तप्रक्षेपरूपा विचित्ररूपाऽपि बह्वल्पैकानेकद्रव्यस्वभावतया नानास्वभावाऽपि, न केवलमेकस्वभावेति / अथ कवलमानमाह-कुक्कुट्यण्डकमात्रं कवलस्यापि भवति विज्ञेयमिति प्रतीतं / नवरं मानमिति वर्तते / इति गाथार्थः // 21 // इहैव विशेषमाह - एयं च कीरमाणं, सफलं परिसुद्धजोगभावस्स / निरहिगरणस्स णेयं, इयरस्स न तारिसं होइ // 918 // 19/22 एयं गाहा / एतच्चैतत्पुनरनन्तरोक्तं तपः क्रियमाणं विधीयमानं सफलं मोक्षादिफलं विज्ञेयमिति योगः / परिशुद्धा निर्दोषा योगा व्यापारा भावश्चाध्यवसायो यस्य स तथा तस्य / एतदेव स्पष्टतरमाह-निरधिकरणस्य गुरुतरारंभर्जितस्य निष्कलहस्य वा ज्ञेयं ज्ञातव्यम् / इतरस्य साधिकरणस्य न नैव तादृशं यादृशं निरधिकरणस्य फलमिति गम्यते / भवति स्यात् / इति गाथार्थः // 22 //