________________ 250 १९-तपोविधि-पञ्चाशकम् गाथा-१६-१९ तीर्थकराः महानुभावा अचिन्त्यशक्तयः / 'तओ य इमो त्ति' तकच्च तीर्थकरनिर्वाणगमनाख्यं तप इदं वक्ष्यमाणं / इति गाथार्थः // 15 // तदेवाह - निव्वाणमंतकिरिया, सा चोइसमेण पढमनाहस्स / सेसाण मासिएणं, वीरजिणिंदस्स छटेणं // 912 // 19/16 निव्वाण गाहा / निर्वाणं निर्वृत्तिः / अन्तक्रियेति अन्तक्रियाशब्देनोच्यते / सान्तक्रिया 'चोद्दसमेण त्ति' चतुर्दशभक्तेनोपवासषट्करूपेण प्रथमनाथस्य ऋषभजिनस्य / शेषाणामजितादीनां मासिकेन मासोपवासरूपेण / वीरजिनेन्द्रस्य षष्ठेनेति व्यक्तम् / इति गाथार्थः // 16 // अथैते यत्र निर्वृतास्तत्प्रसंगेन दर्शयितुमाह - अट्ठावयचंपोज्जितपावासंमेयसेलसिहरेसु / उसभ-वसुपुज्जनेमी-वीरो सेसा य सिद्धिगया // 913 // 19/17 स्पष्टा नवरं अष्टापदः पर्वतविशेषः / चंपा नगरी / 'उज्जित त्ति' उज्जयन्तः पर्वतविशेष एव / 'पाव त्ति' अपापा मध्यमा नाम नगरी / संमेतशैलशिखरं पर्वतविशेषकूटं / एषु स्थानकेषु / ऋषभादयः क्रमेण सिद्धिं गता इति गाथार्थः / / 17 / / तथा चंदायणाइ य तहा अणुलोमविलोमओ तवो अवरो / भिक्खाकवलाण पुढो विन्नेओ वुड्डिहाणीहिं // 914 // 19/18 चंदा गाहा / चन्द्रायणमिव चन्द्रायणं तदादि च।आदिशब्दाद् भद्रा-महाभद्रा-सर्वतोभद्रारत्नावली-कनकावल्ये-कावली-सिंहनिष्क्रीडितद्वया-चाम्लवर्धमान-गुणरत्नसंवत्सरसप्तसप्तमिकादिचतुष्टय-कल्याणकादितपसामागमप्रसिद्धानां ग्रहः / तथेति वाक्यान्तरोपक्षेपार्थो गाथादौ दृश्यः / अनुलोमविलोमतो गतप्रत्यागत्या। तपोऽपरमन्यत् / कथं? भिक्षाकवलानां प्रतीतानां पृथग भेदेन विज्ञेयो ज्ञेयो वृद्धिहानिभ्यां / इति गाथार्थः // 18 // इयं च चान्द्रायणप्रतिमा यवमध्या स्याद् व्रज्रमध्या च, तत्राद्यां तावद्दर्शयन्नाह - सुक्कम्मि पडिवयाओ, तहेव वुड्डीऍ जाव पन्नरस / पंचदसिपडिवयाहिं, तो हाणी किण्हपडिवक्खे // 915 // 19/19 शुक्ले शुक्लपक्षे प्रतिपदः प्रथमतिथेरारभ्य तथैव तेनैव प्रकारेण एकाद्येकोत्तरलक्षणेन वृद्ध्या प्रतिदिनं भिक्षाणां कवलानां च वर्धनेन यावत् पञ्चदश भिक्षाः कवलान् वा गृह्णाति /