SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 248 १९-तपोविधि-पञ्चाशकम् गाथा-८-१० सुमतिः पञ्चमजिनः स्थ' इति पादपूरणे निपातः / नित्यभक्तेनानवरतभोजनेनाविहितोपवास इत्यर्थः / निर्गतो गृहवासान्निष्क्रान्तः / तथा वासुपूज्यो द्वादशो जिनोऽर्हन् / चतुर्थेनैकोपवासरूपेण। पार्श्वस्त्रयोविंशतितमः, मल्लिरेकोनविंशतितमः / अष्टमेनोपवासत्रयरूपेण। शेषास्तु विंशतिः पुनः षष्ठेनोपवासद्वयरूपेण / इति गाथार्थः // 7 // एतद्विधानविधिमाह - उसभाइकमेणेसो, कायव्वो ओहओ सइ बलम्मि / गुरुआणापरिसुद्धो, विसुद्धकिरियाएँ धीरेहिं // 904 // 19/8 ऋषभादिक्रमेण नाभेयनिर्गमाद्यानुपूर्व्या एष तीर्थकरनिर्गमः कर्तव्यो विधेयः / ओघतः सामान्येनोत्सर्गेणेत्यर्थः / सति विद्यमाने बले शक्तौ / तथाविधबलाभावे पुनर्व्यतिक्रमकरणेऽपि न दोष इति भावः / गुर्वाज्ञया परिशुद्धो निर्दोषस्तत्संपादनाद् गुर्वाज्ञापरिशुद्धः / तथा विशुद्धक्रिययाऽनवद्यानुष्ठानेन / धीरैः सात्त्विकैः / इति गाथार्थः // 8 // इहैव मतान्तरमाह - अन्ने तम्मासदिणेसु, बेंति लिंगं इमस्स भावम्मि / तप्पारणसंपत्ती, तं पुण एयं इमेसिं तु // 905 // 19/9 अन्ने गाहा / अन्येऽपरे सूरयः तेषामृषभादिजिननिर्गमतपसां ये मासाः प्रतीता दिनानि च तिथयस्तानि तन्मासदिनानि तेषु न मासान्तरतिथ्यन्तरेषु / ब्रुवते तीर्थकरनिर्गमतपः / तथाहिऋषभस्वामिनो निष्क्रमणतपोऽङ्गीकृत्य चैत्रमासबहुलाष्टमीदिन एव षष्ठं कार्यम् / वर्धमानस्वामिनश्च मार्गशीर्षबहुलदशमीदिन एवेति / एवमन्येषामपीति / तथा लिङ्गं लक्षणम् / अस्य ऋषभादिनिर्गमतपसः भावे संसिद्धौ / तेषामृषभादीनां यस्य यत्पारणं भोजनमासीत्तस्य संपत्तिः प्राप्तिस्तत्पारणसंपत्तिः / तत्पुनः पारणकमेतद् वक्ष्यमाणमेषामृषभादीनाम् / तुशब्दः पूरणे / इति गाथार्थः // 9 // तदेवाह - उसभस्स उ इक्खुरसो, पारणए आसि लोगनाहस्स / सेसाणं परमण्णं, अमयरसरसोवमं आसी // 906 // 19/10 ऋषभस्य तु नाभेयस्यैव इक्षुरसः पारणके आसील्लोकनाथस्येति व्यक्तम् / शेषाणामजितादीनां परमान्नं पायसं अमृतरसेन लोकरूढ्यपेक्षया रसे स्वादे उपमा यस्य तत्तथा तदासीदभूत् / इति गाथार्थः // 10 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy