________________ 246 १९-तपोविधि-पञ्चाशकम् गाथा-३ स्यास्य लोकैरपि ज्ञायमानत्वात् / स्थूलदृष्टीनामपि च कुतीथिकानां तपस्तया प्रतीतत्वात् / तपः प्रतीतम् / भवति स्यात् / इति गाथार्थः // 2 // उक्तं बाह्यं तपोऽथान्तरमाह - पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ / झाणं उस्सग्गो वि य, अभितरओ तवो होइ // 899 // 19/3 प्रायश्चित्तमुक्तशब्दार्थमालोचनादि प्रागुक्तम् / तथा विनीयतेऽपोह्यते कर्मानेनेति विनयः / स च ज्ञान-दर्शन-चारित्र-मनो-वाक्-कायोपचारभेदात् सप्तधा / तत्राद्यो मत्यादीनां श्रद्धानभक्तिबहुमान-तदृष्टार्थभावना-विधिग्रहणाभ्यासरूपः / द्वितीयस्तु सम्यग्दर्शनगुणाधिकेषु शुश्रूषानाशातनाभेदात् द्वेधा / तयोश्चाद्यः सत्कारांभ्युत्थानसन्मानासनाभिग्रहासनानुप्रदानकृतिकर्माञ्जलिप्रग्रहा गच्छदनुगमनस्थितपर्युपासनगच्छदनुव्रजनभेदाद् दशधा प्रसिद्ध एव / नवरं सत्कारो वन्दनादि-रभ्युत्थानं गौरव्यदर्शने विष्टरत्यागः, सन्मानो वस्त्रादिपूजनम्, आसनाभिग्रह पुनस्तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनम्, आसनानुप्रदानं त्वासनस्य स्थानान्तररसञ्चारणम्, आगच्छतोऽनुगमनमभिमुखयानमिति / अनाशातनाविनयस्तु पञ्चदशधा / तद्यथा-जिनधर्मसूरिवाचकस्थविरकुलगणसङ्घसाम्भोगिकक्रियाज्ञानपञ्चकानामनाशातना भक्तिबहुमानवर्णवादाश्चेति / अत्र च क्रिया-आस्तिक्यमुच्यते / चारित्रविनयस्तु सामायिकादिचारित्राणां श्रद्धानकरणप्ररूपणानि / मनोवाक्कायविनयास्तु आचार्यादिष्वकुशलानां चित्तादीनां सदा निरोधः, कुशलानां पुनरुदीरणेति / उपचारविनयस्तु सप्तधा-अभ्यासासनं (1) छन्दोनुवर्तनं, (2) कृतप्रतिकृतिः (3) कारित-निमित्तकरणं (4) दुःखार्तगवेषणं (5) देशकालज्ञानं (6) सत्रानुमतिश्चेति (7) / प्रतीतश्चायं नवरं कृतप्रतिकृतिर्नाम विनयात् प्रसादिताः सूरयः श्रुतं दास्यन्तीत्यभिप्रायेणाशनदानादियत्नः / कारितनिमित्तकरणं तु सम्यगर्थपदमध्यापितस्य विशेषेण विनये वृत्तिस्तदर्थानुष्ठानं चेति / दुःखार्तगवेषणं तु दुःखितस्य प्रतीकारकारणमिति / तथा व्यावृत्तस्याशनादिदानव्यापारवतो भावः कर्म वा वैयावृत्यम्, तच्चाचार्योपाध्याय(१-२)स्थविर(३)तपस्वि(४)ग्लान(५)शैक्ष(६)साधर्मिक (७)कुल(८)गण(९)संघ(१०)भेदाद् दशधा / तथैवेति समुच्चये। सुष्ठ आ मर्यादयाऽध्यायोऽध्ययनं स्वाध्यायः / स च पञ्चधा-वाचना(१)पृच्छना(२)परिवर्तना(३)अनुप्रेक्षा(४)धर्मकथा(५) भेदादिति। तथा ध्यातिानं अन्तर्मुहूर्तमानं चित्तैकाग्रता / तच्चार्त-रौद्र-धर्म-शुक्लभेदाच्चतुर्धा / तत्राद्ययोर्भवहेतुत्वादितरयोश्च मुक्तिनिमित्तत्वादितरे एव तपः / तथा उत्सर्जनं त्यजनं उत्सर्गः / स च द्वेधा द्रव्यतो भावतश्च / द्वावपि चतुर्धा, तत्र द्रव्यतश्चतुर्धा गणशरीरोपध्याहारभेदात्। भावतस्तु चित्तकोपादित्यागरूपत्वादस्य / 'अब्भितरउ त्ति' आभ्यन्तरकमबाह्य लौकिकैः प्रायोऽनभिलक्ष्यत्वात् तन्त्रान्तरीयैर्भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्च तपो निर्जराहेतुर्भवति