________________ गाथा-१-२ १९-तपोविधि-पञ्चाशकम् // एकोनविंशतितमं तपोविधि-पञ्चाशकम् // 19 // अनन्तरं भिक्षुप्रतिमा उक्तास्तपोरूपाश्च ता इत्यतस्तपः स्वरूपनिरूपणाय प्रकरणं प्रतिपिपादयिषुर्मंगलाद्यभिधानायाह - नमिऊण वद्धमाणं, तवोवहाणं समासओ वोच्छं / सुत्तभणिएण विहिणा, सपरेसिमणुग्गहट्ठाए // 897 // 19/1 नत्वा प्रणम्य वर्धमानं वीरं तपउपधानं तपोरूपं संयमकायोपष्टंभनं तपोविधानं वा तपोऽनुष्ठानं समासतः संक्षेपेण वक्ष्ये भणिष्यामि / सूत्रभणितेनागमोक्तेन विधिना प्रकारेण स्वपरेषामनुग्रहार्थाय स्वपरोपकारायेत्यर्थः / इति गाथार्थः // 1 // अथ तपोभेदान् दर्शयन्नाह - अणसणमूणोयरिया, वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ // 898 // 19/2 अनशनमभोजनं यावत्कथिकेत्वरभेदम् / तत्र यावत्कथिकं पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति त्रिधा / तत्राद्यं सर्वथा परिस्पन्दवर्जितमप्रतिकर्म चतुर्विधाहारत्यागनिष्पन्नं च / द्वितीयमपि तथैव, नवरमिङ्गितदेशे चङ्क्रमणाद्यपरिहारवत् / तृतीयं तु सप्रतिकर्म त्रिविधचतुर्विधाहारत्यागनिष्पन्नं चेति / इत्वरं पुनश्चतुर्थभक्तादि षण्मासान्तम् / (1) तथोनोदरस्य स्तोकाहाराभ्यवहारादपरिपूर्णोदरस्य करणम् ऊनोदरिका / सा च द्रव्यतो द्वात्रिंशत्कवलमानपूर्णाहारापेक्षयैकादिकवलन्यूनाहारग्रहणतोऽनेकविधा / भावोनोदरिका तु कषायत्यागः / (2) तथा वृत्तेभिक्षाचर्यायाः संक्षेपणमल्पताकरणं वृत्तिसंक्षेपणं द्रव्याद्यभिग्रहग्रहणम् / तत्र द्रव्यतो 'लेपकृदेवेतरदेव वा द्रव्यं मया ग्राह्यम्' इत्यादि। एवं क्षेत्रतः स्वग्राम एव परग्राम एव वा एतावत्स्वेव वा गृहेषु यल्लप्स्यत इत्यादि / एवं कालतः पूर्वाह्ने मध्याह्नेऽपराह्ने वा / भावतः पुनरुत्क्षिप्तमेव वा निक्षिप्तमेव वा गायतो वा रुदतो वा यल्लप्स्यत इत्यादि / (3) तथा रसानां दुग्धदध्यादीनां सर्वेषामन्यतरेषां वा त्यागस्त्यजनं रसत्यागः / (4) तथा कायस्य देहस्य क्लेशः, औचित्येन विबाधनं कायक्लेशो वीरासनोत्कटुकासनगोदोहिकाशीतवातातपसहनशिरोलोचादिरनेकविधः / (5) तथा संलीनस्य संवृतस्य भावः संलीनता / सा चेन्द्रियकषाय-योग-विविक्तचर्याभेदाच्चतुर्धा / तत्राद्यत्रयं प्रतीतं। विविक्तचर्या तु स्त्रीपशुपण्डककुशीलवर्जानवद्याश्रयाश्रयणम् / (6) च शब्दः समुच्चये / बाह्यं अनाभ्यन्तरम् आसेव्यमान